पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५०३

पुटमेतत् सुपुष्टितम्
472
श्रीसरस्वतीविलासे

गम्यते । अयमेवासुरविवाह इत्याहुरसहायप्रभृतयः । यथाऽऽह याज्ञवल्क्यः--

सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः ॥

इति । कन्यादूषणे दोषमाहतुः शङ्खलिखितौ-- अनुलोमासु दूषणे तदङ्गच्छेदः । उत्तमासु वधः इति । कन्यास्विति शेषः । तदङ्गच्छेदनमिति येनाङ्गुळिमक्षेपेण योनिक्षतं कुर्वन् दूषयति तदङ्गच्छेदः कार्यः । बलात्कारेण करादिना कन्यां दूषयति तस्य करच्छेदः कर्तव्यः । अत्र विशेषमाह मनुः--

सकामां दूषयानस्तु नाङ्गुळिच्छेदमर्हति ।
द्विशतं तु दमं दाप्य प्रसङ्गविनिवृत्तये ॥

इति । अङ्गुळिशब्दः करस्याप्युपलक्षकः । प्रसङ्गविनिवृत्तये इति अतिप्रसङ्गनिवारणार्थमित्यर्थः । सम्भोगनिवृत्त्यर्थमिति भारुचिः ॥

 अत्रापि विशेषमाह गौतमः-- 'कन्यैव कन्यां दूषयति तदङ्गच्छेदो वा मौण्ड्यं वेति' । अत्र विशेषमाह मनुः--

कन्यैव कन्यायाः कुर्यात्तस्यास्तु द्विशतो दमः ।
या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यमर्हति ॥
अङ्गुळ्यादेरवच्छेदः करणोद्वहनं तथा ।

इति । कन्यां कुर्यादिति योनिक्षतवतीं कुर्यादित्यर्थः । एतच्च दण्डविधानं सवर्णासवर्णमध्यमहीनोत्तमादिकन्यासाधारणमिति भारुचिः । सानुरागादकामां गच्छतो हीनस्य क्षत्रियादेः वधः ॥

उत्तमां सेवमानस्तु जघन्यो वधमर्हति ।

इति मनुस्मरणात् । यदा सवर्णां सकामामभिगच्छति तदा गोमिथुनं शुल्कं तत्पित्रे दद्यात् यदीच्छति पिता । यदि नेच्छति शुल्कं तमेव दण्डरूपेण राज्ञे दद्यात् । सवर्णामकामां तु गच्छतो