पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५०४

पुटमेतत् सुपुष्टितम्
473
व्यवहारकाण्डः

वध एवेति विज्ञानेशः । अत्र विष्णुस्तु विशेषमाह-- 'कन्यादूषको मिथ्यावादी द्विशतं तदर्धं वा इति । दण्ड्य इति शेषः । अयमर्थः--मिथ्याभिशंसनैर्द्विशतं दण्ड्यः । नित्यदूषणे शतं दण्ड्य इति । अपस्मारराजयक्ष्मादिदीर्घरोगकुत्सितरोगसंसृष्टिमैथुनत्वादिदूषणानि । यथाऽऽह याज्ञवल्क्यः--

अपरुद्धासु दासीषु भुजिष्यासु तथैव च ।
अनिषेद्धा क्षमो यस्सन् सर्वे ते कार्यकारिणः ।
गम्यास्वपि पुमान् दाप्यः पञ्चशत्यधिकं दमम् ॥

गच्छन्निति शेषः । पुरुषान्तरोपभोगतो निरुद्धा अपरुद्धाः । पुरुषनियतपरिग्रहा भुजिष्या । एनयोर्विशेषणं गम्यास्वपीति । सर्वपुरुषसाधारणतया गम्यास्वित्यनुवादः । यथाऽऽह याज्ञवल्क्यः--

प्रसह्य दास्यभिगमे दण्डो दशपणःस्मृतः ।
बहूनां यद्यकामा सा चतुर्विंशतितः पृथक् ॥

अत्र विशेषमाह याज्ञवल्क्यः--

अन्त्याभिगमने त्वङ्क्यः कुदण्डेन प्रवासयेत् ।
शूद्रस्तदान्त्य एव स्यादन्यस्याभिगमे वधः ॥

अस्यार्थः-- अन्त्या-- चण्डाली तद्गमने त्रैवर्णिकान् प्रायश्चित्तानभिमुखान् 'सहस्रं त्वन्त्यजस्त्रियमिति' वचनात् पणसहस्रं दण्डयित्वा कुदण्डेन कुत्सितदण्डेन भगाकारेणाङ्कयित्वा स्वराष्ट्रान्निर्वासयेत् । प्रायश्चित्ताभिमुखस्य तु दण्डनमेव । .......... शूद्रः पुनश्चण्डालीमभिगम्य चण्डाल एव भवति । अन्त्यजस्य चण्डालादेस्तूत्कृष्टजातिस्त्र्यभिगमने च स एवेति वचनार्थः ।

 S.VILASA.
60