पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५१

पुटमेतत् सुपुष्टितम्
20
श्रीसरस्वतीविलासे

ङ्गनिरूपणं क्रियते-- तत्र कात्यायनः-

राजा पुरोहितं कुर्यादुदितं ब्राह्मणं हितम् ।
कृताध्ययनसम्पन्नमलुब्धं सत्यवादिनम् ॥ इति ॥

अत्रैकत्वं विवक्षितं यूपं छिनत्तीतिवदुत्पाद्यत्वात् । तथा च याज्ञवल्क्यः--

पुरोहितं च कुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्यां तु कुशलमथर्वाङ्गिरसे तथा ॥

 उदितोदितमिति-- उदितैर्विद्याभिजननानुष्ठानादिभिरुदितं समृद्धमिति विज्ञानेश्वरः--

भारुचिस्तु--

 उदिते राज्ञः पट्टवन्धसमये उदितस्सम्पाद्यः तथा च हारीतः--

पट्टबन्धोदये कार्य एक एव पुरोहितः ।
तेनैव कार्यास्सर्वास्तु राज्ञस्तस्यौर्ध्वदैहिकाः ॥
अल्पायुष्ट्वात् कलियुगे तथा कुर्यात् द्विकं सदा ॥ इति ॥

अत्र और्ध्वदैहिकग्रहणं सर्वक्रियोपलक्षणार्थम् । ऐहिकक्रिया राज्ञस्त्वशक्त्या पुरोहितेनैव कार्याः । तदा पट्टवन्धसमय एव द्विकं द्वौ कुर्यात् । एकः प्राधान्येन, अपरस्तूपसर्जनतया, प्रधानस्य नाशे उपसर्जनस्य प्राधान्यं । तस्योपसर्जनपुरोहितस्य प्राधान्यस्वीकारसमये उपसर्जनं पुरोहितान्तरं सम्पाद्यम् । "अल्पायुष्ट्वात्कलियुग" इति न्यायस्यात्रापि समा