पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५२७

पुटमेतत् सुपुष्टितम्

अथ प्रकीर्णकाख्यस्य पदस्य विधिरुच्यते


 पूर्वेषु सप्तदशसु प्रकरणेषु व्यवहारस्य चतुर्व्यापित्वं प्रतिपादितं । चतुर्व्यापित्वं नाम अर्थिप्रत्यर्थिसभ्यराजरूपानव यवान् चतुरो व्याप्नोतीति । अत्र प्रकीर्णकाख्ये राजैकनियतत्वमिति संगतिः--

एष वादिकृतः प्रोक्तो व्यवहारस्समासतः ।
नृपाश्रयं प्रवक्ष्यामि व्यवहारं प्रकीर्णर्कम् ॥

इति । एष इति सप्तदशविवादपदात्मकः । राजाश्रयत्वं नारद आह--

प्रकीर्णके पुनर्ज्ञेया व्यवहारा नृपाश्रयाः ।
राज्ञामाज्ञाप्रतीघातस्तत्कर्माकरणानि च ॥
पुरप्रमाणसंभेदाः प्रकृतीनां तथैव च ।
पाषण्डनैगमश्रेणीगणधर्मविपर्ययाः ॥
पितापुत्रविवादश्च प्रायश्चित्तव्यतिक्रमाः ।
प्रतिग्रहविलोपश्च लोप आश्रमिणामपि ॥
धर्मसङ्करदोषश्च तद्वृत्तिनियमस्तथा ।
न दृष्टं यच्च पूर्वेषु सर्वं तत्स्यात्प्रकीर्णकम् ॥

इति । एतद्वचनं नारदीयं । नारदोक्ताष्टादशविवादपदमध्यगत सप्तदशविवादेषु यन्नोक्तं तदेव प्रकीर्णकं कथितं । अस्मदीयस्मृतिनिबन्धस्तु सर्वस्मृतिसमुच्चय इति तदनुसारेण प्रतिपाद्ये तत्तदाकाङ्क्षावशात् तत्र तत्र विवादपदे राजैकनियता अपि व्यवहारानिर्णीताः । अत्र व्यवहारपदे प्रकीर्णकाख्ये मदीयग्रन्थानुसारेण

496