पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५२८

पुटमेतत् सुपुष्टितम्
497
व्यवहारकाण्डः

नारदीयानुसारेण च यत्पूर्वं नोक्तं तदेव कथ्यते । तथा हि-- राज्ञामाज्ञाप्रतीघात इत्यास्यार्थः-- राज्ञाऽस्मै ब्राह्मणाय क्षत्रियाय वा एतावद्द्रव्यं देयं इत्याज्ञायां दत्तायां यस्तु न करोति तेन द्रव्यं तस्मै दापयित्वा स तद्द्विगुणं दण्ड्य इति ॥ तदाह विष्णुः-- आज्ञाप्रतिघाते द्विगुणो दम इति । अयमर्थः-- द्विगुण इति द्वैगुण्योक्त्यैवाज्ञप्तं द्रवं तस्मै दापयितव्यमिति ज्ञायत इति भारुचिः । तत्कर्मकरणानीत्यस्यार्थः-- तस्य राज्ञः कर्म राज्यं तस्य करणं मुद्रिकामगृहीत्वेति शेषः । 'अनादिष्टस्सन्नध्यक्षतां व्रजति तदनुसारेण दण्ड्य इति' विष्णुस्मरणात् ॥ पुरप्रमाणसंभेदाः-- पुरं प्रसिद्धं प्रमाणानि साधनानि हस्तश्वरथपदातिप्रभृतीनि तेषां संभेदः शत्रूणां अवेदनं मर्मोद्घाटनमिति यावत् । प्रकृतीनां त्वमात्यानां परस्परपैशुन्यकथनेन भेदकरणं । तथा च संवर्तः--

अमात्यानां च पैशून्ये पुरमानप्रभेदने ।
मध्यमं चोत्तमं चैव दण्ड एव क्रमोदितः ॥

इति । यथाक्रमं प्रकृतीनां पैशुन्ये मध्यमसाहसं पुरप्रमाणमर्मकथने उत्तमसाहसं दण्ड्यः । चकाराच्छारीरो दण्डो यथार्ह इति । अत्र पैशुन्यशब्दः भावे ष्यञन्तः । पिशुनस्य भावः पैशुन्यं ।

 पाषण्डनैगमश्रेणिगणधर्मविपर्यया इति । अस्यार्थः-- पाषण्डिनां धर्माः पट्टणे अस्मिन् स्थले पाषण्डिनः स्थापयितव्याः नैगमा अपि श्रेणयोऽपि गणा अपीत्यादिप्रतिनियतस्थलावस्थानानि धर्माः तेषां विपर्ययो न तु कुङ्कुमवसन्तान्दोळिकादयस्तेषां समयानपाकर्माख्ये प्रतिपादितत्वात् । तेषां विवादानां वादिप्रतिवादिसद्भावे चतुर्व्यापित्वसद्भावात् राजैक

 S.VILASA.
63