पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५२९

पुटमेतत् सुपुष्टितम्
498
श्रीसरस्वतीविलासे

नियतत्वाभावाच्च । पितापुत्रविवादश्चेति-- अयमर्थः-- यः कश्चिद्बन्दीकृतो वा देशान्तरगतो वा चिरकालमपि स्थित्वा समागत्यासौ मम पितासौ पुत्र इत्यादि; पितृपुत्रग्रहणं पत्न्यादीनामुपलक्षकं । असौ मम पतिरियं पत्नीत्यादि; अत्र साक्षिणो न सन्ति स्वयं तु न जानन्ति दिव्यादिकं नावतरति शपथादिभिः शोधयितुमनुचितमिति; अतश्च राजैकनियतत्वात् राज्ञैव निर्णयः कार्य इति । पितापुत्रसंशये निर्णयप्रकारमाह विष्णुः-- पुत्रसंशये माता तमङ्कमारोपयेद्विकृतिश्चेन्निर्णेतव्य इति । प्रकृतिः कामविकारः । तद्विंशतिवर्षीयमातृकपञ्चदशवर्षीयपुत्रविषयं । वृद्धमातृविषये तदभावान्निर्णयान्तरमाहतुः शङ्खलिखितौ--

 स्वपन्तंपुत्रमाहूय ज्ञातव्यमिति । एकेनापि प्रकारेण निर्णयाभावे अभिषिक्तस्य राज्ञो हृदयमेव प्रमाणमित्याह विष्णुः-- अत्र राज्ञो हृदयमेव प्रमाणमिति । अत एवाह काळिदासः ।

 सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः ॥ इति । प्रायश्चित्तव्यतिक्रम इत्यस्यार्थः-- प्रयाश्चत्तिकरणव्यतिक्रमः । तद्व्यतिक्रमे प्रायश्चित्तं कारयितव्यमिति प्रायश्चित्तकरणस्य राजैकनियतत्वात् राज्ञैव प्रायश्चित्तं कार्यमिति । तथा च देवलः--

कृछ्राणां दापको राजा निद्रैष्टा धर्मपालकः ।

इति । महापापेषु कृछ्राणां प्रायश्चित्तानां दापको राजा भवति । ब्रह्महत्यादिप्रायश्चित्तेषु राजाज्ञां विना द्विजाद्यैः प्रायश्चित्तं न प्रवर्तयितव्यमित्यर्णवकारः । प्रतिग्रहविलोपश्चेति प्रतिग्रहशब्देन स्वाध्यायग्रहणं लक्ष्यते । परकृतोपसर्गात्त्रैविद्यवृद्धानामाक्रोशं वेदाध्ययनविषयं कृत्वा तत्परिपालनं कर्तव्यं । तस्य राजेकनिय