पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५५

पुटमेतत् सुपुष्टितम्
24
श्रीसरस्वतीविलासे

"श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव चर्त्विजः ।
यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् ॥

यज्ञानग्निष्टोमादीन् चकाराद्राजसूयादीन् । तदनन्तरमाह वसिष्ठः ।

योगक्षेमलक्षणम्.

"योगक्षेमार्थयोर्यत्नः कर्तव्य" इति

अस्यार्थः अलब्धस्य लाभो योगः । लब्धस्य परिपालनं क्षेमः उभयमपि धर्मानुसारेणैव । अत एवाह याज्ञवल्क्यः--

अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ इति ।

अलब्धलाभाय धर्माविरोधेन यत्नः कर्तव्यः । लब्धं तु स्वयमपेक्षया रक्षेत् । नीतिः वणिक्पथादिका । वृद्धं पात्रेषु त्रिषु धर्मार्थकामेषु निक्षिपेत् । अत्र पात्रेष्विति बहुवचनं त्रित्व एव पर्यवसितम् । कपिञ्जलाधिकरणन्यायेनेति भारुचिः । एतद्भारुचिव्याख्यानं पात्रत्रैविध्यप्रतिपादनपरम् । न तु पात्रसङ्कोचप्रतिपादनपरम् । अत एवोक्तं हारीतेन--

 "आयव्ययौ परिज्ञायेति" पालितं वर्धयेन्नीत्येति"

याज्ञवल्कीय वचनसमानार्थं वेदितव्यम् । आयव्ययपरिज्ञानानन्तरं आयव्यययोः साम्ये व्ययस्याधिक्ये वा दातुमनुचितत्वात् कोशाभावे राज्ञः स्वराष्ट्रस्य स्थापनं परराष्ट्रस्य साधनं दुश्शकमिति वक्ष्यमाणत्वात् । यत्तु विष्णुनोक्तं--