पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५६

पुटमेतत् सुपुष्टितम्
25
व्यवहारकाण्डः

 "योगक्षेमसाधितं द्रव्यं ब्राह्मणेभ्योऽतिथिभ्यः सत्रिभ्यः इष्टापूर्तार्थं कुशीलवेभ्यो नर्तकादिभ्यो बलिने राज्ञे करं सौदायिकं पारितोषिकं दद्यात्" इति ।

 योगक्षेमौ व्याख्यातौ । ब्राह्मणेभ्यः पात्रभूतेभ्यः तुलापुरुषादिदानरूपेण देयम् । अतिथिभ्यः पञ्चमहायज्ञावसाने स्वयमागतेभ्यः, सत्रिभ्यः यज्ञदक्षिणार्थमागतेभ्यः, एतत्सत्रिपदं धर्मजनकक्रियासाधनार्थं द्रव्ययाचकानामुपलक्षकं । अतश्च तटाकादिनिर्मातॄणां यत्किञ्चिद्देयम् । इष्टापूर्तार्थं । इष्टं यागः, पूर्तं तटाकादि । यागशब्देन यागदक्षिणा । पूर्तशब्देन पूर्तनिर्मातृभृतिरुपलक्ष्यते । एतद्द्वयं स्वकृतमित्यवगन्तव्यम् । अन्यथा सत्रिपदपौनरुक्त्यात् । अयं च धर्ममूलव्ययप्रकारः । बलिने राज्ञे करमिति अर्थपुरुषार्थमूलव्ययः । शेषस्तु कामपुरुषार्थमूलव्ययः । कृषिकाणां भृतिः त्रिवर्गसाधारणव्ययः । सौदायिकं स्त्रीधनं पारितोषिकं स्त्रीणां तोषवशाद्दत्तम् । तच्च पारितोषिकपदं सामान्यतः परितोषमूलकदाने विशेषनिष्ठतां विहाय प्रवर्तते क्वचित् ।

यथा--

"राजा भटानां पारितोषिकं दत्ते" ॥ इति ।

तदपि आयव्ययपरिशीलनानन्तरं यथाशक्ति देयमित्येवं परम् । आयव्ययपरिशीलनानन्तरं यथाशक्ति किं कर्तव्यमित्यपेक्षिते याज्ञवल्क्यः--

 S.VILASA.
 4