पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/६३

पुटमेतत् सुपुष्टितम्
32
श्रीसरस्वतीविलासे

"सन्ध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् ।
नृत्तगीतैश्च भुञ्जीत पठेत्स्वाध्यायमेव च" ॥ इति ।

सन्ध्योपासनस्य सामान्यतः प्राप्तस्यापि पुनर्वचनं कार्यानुकूलत्वादविस्मरणार्थम्" इति विज्ञानेश्वरः । भारुचिस्तु- "कार्यव्यासङ्गेऽपि शक्तौ सत्यां न पुरोहितकृत्यं सन्ध्योपासनमिति ज्ञापनार्थम्" इत्याह । तदनन्तरं किं कर्तव्यमित्यपेक्षिते योगीश्वरः-

"संविशेत्तूर्यघोषेण प्रबुध्येच्च तथैव च ।
शास्त्राणि चिन्तयेद्बुध्या सर्वकर्तव्यतां तथा" ॥ इति ।

अत एवाह वसिष्ठः--

 "ब्राह्मे मुहूर्ते चोत्थाय त्रिचतुरैः विद्वद्भिस्सह शास्त्राणि चिन्तयेत्" इति । सर्वकर्तव्यतां तु स्वयमेव चिन्तयेत् । एतत् स्पष्टविषयम् । यथाऽऽह हारीतः--

एतद्वृत्तं समातिष्ठेत् स्वस्थस्सन् पृथिवीपतिः ।
अस्वस्थः सर्वमेतत्तु मन्त्रिमुख्ये निवेदयेत्" ॥ इति ।

तदनन्तरकृत्यमाहतुः शङ्खलिखितौ--

"विश्वासिनश्चारान् समानयेत् तानन्यत्र प्रेषयेत्" ॥ इति

तदनन्तरकृत्यमाह विष्णुः--

 "सन्ध्योपासनमग्निहोत्रर्त्विक्पुरोहिताशीर्वादस्वीकारो ज्योतिविद्दर्शनसम्भाषणरहस्यकथनपूर्वकं स्वशरीरस्थितिं निवेद्य प्रतिर्विधानं चादिभ्य श्रोत्रियेभ्यः कनकतिलादिदानानि दद्यात्" ॥ इति ।