पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/६७

पुटमेतत् सुपुष्टितम्
36
श्रीसरस्वतीविलासे

अरिर्द्विषन् । मित्रं सखा । एतद्विलक्षणः उदासीनः-- मैत्रशात्रवरहितः । ते च त्रिविधाः । सहजाः प्राकृताः कृत्त्रिमाश्चेति । सहजाः--सापत्नपितृव्यसुतादयः । कृत्त्रिमाः-- यस्यापकृतं येन वा अपकृतं । प्राकृतस्तदनन्तरदेशाधिपतिः । सहजमित्रं भागिनेयपैतृष्वसेयमातृष्वसेयादिः । कृत्त्रिमं-- येन वोपकृतं यस्य वा उपकृतं । प्राकृतं मित्रं-- एकान्तरितदेशाधिपतिः । सहजकृत्त्रिममित्रलक्षणरहितौ सहजकृत्त्रिमोदासीनौ । प्राकृतोदासीनो-- द्व्यन्तरदेशाधिपतिः ।

 अरिः पुनश्चतुर्विधः-- यातव्यः, छेतव्यः, पीडनीयः, कर्शनीयश्चेति । तत्र यातव्योऽनन्तरभूमिपतिः । व्यसनी हीनबलो विरक्तप्रकृतिः विदुर्गो मित्रहीनो दुर्बलः छेत्तव्यः । पीडनीयो मन्त्रबलहीनः । [१]प्रबलमन्त्रस्तु कर्शनीयः ।

यथोक्तम्--

"निर्मूलनाश उच्छेदः पीडनं बलनिग्रहः ।
कर्शनं तु पुनः प्राहुः कोशदण्डोपकर्शनात्" ॥ इति ॥

बृंहणीयकर्शनीयभेदेन मित्रं द्विविधम्

मित्रं च द्विविधम् । बृंहणीयं कर्शनीयं चेति । बलकोशहीनं बृंहणीयं । 'कोशहीनं बृंहणीयम्, कोशबलाधिकं कर्शनीयं' इत्याह विज्ञानेश्वरः । एतद्राजमण्डलं क्रमशः पूर्वादिक्रमेण चिन्त्यम् । पुरतः पृष्ठतः पार्श्वतः त्रयस्त्रय आत्मा चैक इति त्रयोदशराजकं राजमण्डलम् । पार्ष्णिग्राहादयस्तु अरिमित्रोदासीनेष्वेवान्तर्भावान्न पुनरुक्ता धर्मशास्त्रे ।



  1. प्रबलमन्त्रयुक्तः.