पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/६९

पुटमेतत् सुपुष्टितम्
38
श्रीसरस्वतीविलासे

चतस्र इति अरिविजिगीषुमध्यमोदासीनाः । केचित्पञ्चकमाहुः--

"पञ्चकं मण्डलं न्याय्यं त्रितयं वा मनीषिभिः ॥ इति ॥

आक्रन्दकरणकपार्ष्णिग्राहनिवृत्तिमूलकपृष्ठशुद्धिमन्मित्रोत्पादित कोपपश्चात्कोपविजिगीषोश्शत्रुमभियुञ्जानस्य कार्यसंसिद्धिरिति पञ्चकं न्याय्यमिति भावः । केचिन्मण्डलषट्कमाहुः--

"विजिगीषुररिर्मित्रं पार्ष्णिग्राहोऽथ मध्यमः ।
उदासीनः पुलोमेन्दौ मण्डलं षट्कमूचतुः" ॥ इति ॥

मध्यमोदासीनानुगृहीतावरिविजिगीषू स्वं स्वं शत्रुमभियुञ्जानाविति तात्पर्यम् ।

 दशकं राजमण्डलमाहोशना--

"अरिर्मित्रमरेर्मित्रं मित्रमित्रमतःपरम् ।
अथारिमित्रं मित्रं च विजिगीषोः पुरस्सराः ॥
पार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् ।
आसारावनयोश्चैव विजिगीषोस्तु मण्डलम्" ॥ इति ॥

अस्यार्थः-- तत्र विजिगीषोस्समन्ततो मण्डलीभूतभूम्यनन्तरः शत्रुः, तथैव भूम्यैकान्तरितं मित्रं, तथा तदनन्तरमरेर्मित्रं, ततो मित्रमित्रमिति । अरिमभियोक्तुं प्रवृत्तस्य विजिगीषोः पुरस्तादेतदेवंविधसंज्ञया व्यवह्रियते । शत्रुहिताय पार्ष्णि गृह्णातीति पार्ष्णिग्राहः । जिगीषुणा आक्रन्द्यते आहूयत इत्याक्रन्दो विजिगीषुमित्रं । आसारावनयोश्चेति-- पार्ष्णिग्राहमभ्यनुज्ञादानेनासारयतीति अमित्रमासारः । तथैव आक्रन्दः आसारः विजिगीषुमित्रमित्रम् । एतद्विजिगीषोर्मण्डलम् । तज्जे