पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/७२

पुटमेतत् सुपुष्टितम्
41
व्यवहारखण्डः

अष्टादश राजप्रकृतयः, नवतिः द्रव्यप्रकृतयः इत्यर्थः । केषांचिन्मते चतुर्विंशत्त्युत्तरत्रिशतं मण्डलं । यथोक्तं राजलासके--

चतुःपञ्चाशतो राज्ञाममात्याद्याः पृथक् पृथक् ।
सचतुर्विंशतीदं हि मण्डलं त्रिशतं मतम् ॥ इति ॥

अत्र द्रव्यप्रकृतयः सप्तत्युत्तरद्विशतम् । स्वामिप्रकृतयः चतुःपञ्चाशदित्यर्थः । एवं बहुप्रकारमपि राजमण्डलं द्वादशकेऽन्तर्भूतम् इति । तदेवोक्तं याज्ञवल्क्यादिधर्मशास्त्रकारैः । यद्यप्येकप्रभृत्येकादशान्तानां मण्डलानां द्वादशान्तर्भावो नास्ति । तथापि द्वादशराजमण्डलस्य लोकप्रसिद्धत्वादेकादिमण्डलानां दुर्ज्ञानत्वात् द्वादशकमेवाङ्गीकृतं याज्ञवल्क्यादिभिः । औशनसादिमतेऽपि मण्डलविकल्पेषु विद्यमानेषु द्वादशकमेवाभिप्रेतम् ॥ यथाऽऽहोशनाः--

"इति प्रकारैर्बहुधा मण्डलं परिचक्षते ।
सर्वलोकप्रतीतं तु स्फुटं द्वादशराजकम्" ॥ इति ॥

चतुर्विधोपायाः.

 अत्रोपायमाह विष्णुः--

"उपायास्सामदानभेददण्डाश्चत्वारः" ॥ इति ॥

साम प्रियभाषणं । दानं सुवर्णादेः । भेदो-भेदनम् तत्सामन्तादीनां परस्परवैरोत्पादनम् । दण्डः-- उपांशुप्रकाशाभ्यां धनादिवधपर्यन्तश्चापकारः । एते सामादयः परिपन्थ्यादिसाधनोपायाः । तेषामुद्देशत एव चतुष्ट्वसिद्धौ पुनश्चतुर्ग्रहणं

 S.VILASA.
6