पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/७४

पुटमेतत् सुपुष्टितम्
43
व्यवहारकाण्डः

परं प्रति यात्रा । आसनमुपेक्षा । द्वैधीभावो बलस्य भिदाकरणम् । आश्रयो बलवदाश्रयणम् ।

यात्राकालः

यानकालानाह याज्ञवल्क्यः--

यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥

अर्थशास्त्रस्य पुरुषकारायत्तत्वात्पुरुषकारस्य प्राबल्यमाह-- वसिष्ठः ॥ 'दैवपुरुषकारयोः पुरुषकारो बलवान्, उभयमेकमित्येके' याज्ञवल्क्यादय इत्यर्थः । स्वमते पुरुषकारस्यैव प्रबलत्वम् । तथा लोके दर्शनात् । अन्यथा चिकित्सकादिशास्त्रवैयर्थ्यात् । अन्यथा कौशलादिचक्रविद्यानां दृष्टार्थानां वैयर्थ्यात् । यथा कौशलेऽस्मिन् युद्धे अनेनासावस्मिन्नवयवे हन्यते, अनेन हननेन म्रियत इति निश्चये तस्मिन्नवयवे गुप्ताकारेण लोहपट्टादिके निक्षिप्ते तस्मिन् लोहपट्टघातः । न तु म्रियत इति दैवात्पुरुषकारो बलवानिति शास्त्रस्य प्रयोजनं सिद्धमिति भावः । याज्ञवल्क्यादीनां मतं तु--

दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता ।
तत्र दैवमतिव्यक्तं पौरुषं पूर्वदैहिकम् ॥

पूर्वदैहिकं-- पूर्वदेहार्जितं । पौरुषमेव दैवमित्युच्यत इति तदेकदेशिमतम् ।

 मतान्तराणि तु केचिद्देहबलभावाच्च कालात्पुरुषकारः । केचिदिष्टानिष्टफलं दैवादेवेच्छन्ति । केचित्स्वभावात् न का