पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/७५

पुटमेतत् सुपुष्टितम्
44
श्रीसरस्वतीविलासे

रणमपेक्षते इति । केचित् कालात् । केचित्पुरुषकार एवेत्युक्त्वा स्वमतमाह योगीश्वरः--

"संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः" ।

एकैकस्मात् फलं न भवतीत्यर्थः । तत्र दृष्टान्तमाह--

"यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति" ॥

पञ्चाङ्गानि

पञ्चाङ्गान्याह हारीतः--

"सहायास्साधनोपाया विभागो देशकालयोः ।
विपत्तेश्च प्रतीकारः सिद्धिः पाञ्चङ्ग इष्यते" ॥

कार्यसिद्धिरूपलाभस्त्रिविधः । हिरण्यलाभो भूलाभो मित्रलाभश्चेति । तेषु मित्रलाभो ज्यायान् । अतः तत्सिद्ध्युपायो ज्यायान् । ततस्तत्प्राप्त्युपाये यत्नो विधेयः ।

 सचोपायः सत्यभाषणमेवेत्याह वसिष्ठः--

"सत्यभाषणान्मित्रलब्धिः सा हिरण्यभूमिभ्योऽधिका" ।

तथा च याज्ञवल्क्यः--

"हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
ततो यतेत तत्प्राप्तौ रक्षेत्सत्यं समाहितः" । इति ।

मर्माणिः

पञ्चस्वपि मर्मसु न प्रमदितव्यम् । तथा च गौतमसूत्रम्--

"भोजननिधुवनक्षौराभ्यङ्गस्वापकालाः पञ्च मर्माणि तेषु
न प्रमदितव्यम् इति ।

भोजनकालः अभ्यवहारकालमात्रोपलक्षकः । ताम्बूलादिचर्व