पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/७६

पुटमेतत् सुपुष्टितम्
45
व्यवहारकाण्डः

णकालोऽपि मर्मकालः निधुवनकालोऽपि व्यक्त्यन्तरसंसर्गस्योपलक्षकः । तथा च मित्रेणैकशय्यासनकालोऽपि मर्मकालः । क्षौरकालस्तु शस्त्रसंसर्गकालस्योपलक्षकः । अभ्यञ्जनकालस्तु श्रमादिकालानामुपलक्षकः । स्वापकालस्त्वेकाकित्वावस्थायाः उपलक्षकः इति व्याख्यातं व्याख्यातृभिः । अत उक्तं मनुना-

"एवं सर्वमिदं राजा सम्मन्त्र्य सह मन्त्रिभिः ।
व्यायम्याप्लुत्य मध्यान्हे भोक्तुमन्तःपुरं व्रजेत् ॥
तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः ।
सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥
विषघ्नैरौषधैरद्भिस्सर्वद्रव्याणि नेजयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥
परीक्षितास्त्रियश्चैनं व्यजनोदकधूपनैः ।
वेषाभरणसंयुक्तास्संस्पृशेयुस्समाहिताः ॥
एवं प्रयत्नं कुर्वीत यानशय्यासनाशनैः ।
स्नाने प्रसादने चैव सर्वालङ्कारकेषु च ॥
भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह ॥
विहृत्य च यथाकालं पुनः कार्याणि चिन्तयेत् ॥" इति

सप्ताङ्गानि

सप्ताङ्गानि तु स्वाम्यमात्यादीनि

 तथा च गौतमसूत्रम्--

"स्वाम्यमात्यसुहृद्दुर्गकोशदण्डजनाः ॥" इति ।

स्वामी प्रसिद्धः । अमात्या मन्त्रिणः । सुहृदः सहजकृत्रिम