पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/७८

पुटमेतत् सुपुष्टितम्
47
व्यवहारकाण्डः

तदिति राज्यम् ।

"सत्यसन्धेन शुचिना सुसहायेन धीमता ।
यथाशास्त्रं प्रयुक्तस्सन् सदेवासुरमानवम् ।
जगदानन्दयेत् सर्वं अन्यथा तत्प्रकोपयेत् ।
अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितस्स्वकात् ॥

एतच्च मातापित्रादिव्यतिरिक्तं विषयम् ।

"अदण्ड्यौ मातापितरौ स्नातकश्च पुरोहितः ।
परिव्राजकवानप्रस्थाश्च . . . . . . . ."

इति विष्णुस्मरणात् ।

 इदानीं सामान्येन राज्ञो व्यवहारदर्शनं कार्यमित्युक्तं । स च व्यवहारः कीदृशः? कतिविधः? कथं चेति प्रदर्श्यते-- व्यवहारो नाम अन्यविरोधेन स्वात्मसम्बन्धितया कथनम् । सत्यभाषणाहिंसननिष्ठत्वात् । प्रयत्नसाध्यधर्माख्यपदार्थे लोभद्वेषादिवशद्विच्छिन्ने सति ऋणादानादौ स्वधनप्राप्त्यर्थं समयधर्मादौ च परधर्मवर्जनार्थं न्यायविस्मरणं क्रियते । तत्र साध्यमूलो यो मनुष्याणां विवादस्स व्यवहार इत्युच्यत इति । न चैवं चौर्यपारुष्यविवादो न व्यवहार इति शङ्कनीयम् । अष्टादशविधविषयाणामन्यतमविषयको विवादो व्यवहार इति लक्षणाङ्गीकारात् । तथाहि--

अष्टादशविवादपदानि.

 ऋणादानोपनिधिसंभूयोत्थानदत्ताप्रदानिकाभ्युपेत्याशुश्रूषावेतनानपाकर्मास्वामिविक्रयासम्प्रदानक्रीत्वानुशयसीमा