पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/८०

पुटमेतत् सुपुष्टितम्
49
व्यवहारकाण्डः

अभ्युपेत्याशुश्रूषाख्ये विवादपदे निरुपाधिकत्वेऽपि प्रत्यादेयत्वमिति संगतिः । न चानयोरेकप्रकरणत्वं, पूर्वप्रकरणे दत्तस्यादानं द्रव्यविषयम् । अत्रोपेतस्याकरणमुपजीवकविषयमिति भिन्नविषयत्वात् प्रकरणान्तरेण व्युत्पाद्यमिति नैकप्रकरणत्वम् । अभ्युपेत्याशुश्रूषाख्ये पदे उपगतपणजीव्यतादीनां दानानां प्रतिश्रुतनिर्वाहार्यं प्रतिनिधिर्वा कार्यं इत्युक्तम् । अत्र वेतनानपाकर्माख्ये तु पदे प्रतिश्रुतनिर्वाहार्थं वेतनमिव कर्तव्यम् । अन्यथा तद्वेतनं प्रतिश्रुतमव्यवहरणीयमिति संगतिः । न चास्य दत्ताप्रदानिकेऽन्तर्भावः । तत्र दत्तस्यादत्तप्रायतोक्ता, न तु दत्तस्यापहरणम् । ततश्च अनयोर्भेदः । तदभिसन्धायाह मनुः--

"अतः परं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥" इति ।

 अतः परमभ्युपेत्याशुश्रूषाख्यस्य पदस्यानन्तरमित्यर्थः । पूर्वप्रकरणे वेतनानपाकर्माख्ये वेतनमनपाकरणीयमित्युक्तम् । अत्रास्वामिविक्रयाख्ये तु क्रीतमपाकरणीयमिति संगतिः । दत्ताप्रदाने तु दत्तस्यादत्तप्रायतोक्ता । अत्र तु क्रीतस्यापाकरणमेव, न तु क्रीतस्याक्रीतप्रायतेति तस्माद्भेदः । अस्वामिविक्रये पदे अस्वामिविक्रीते द्रव्ये स्वत्त्वानुत्पत्तेः तत्परावर्तनीयमित्युक्तम् । अत्र तु विक्रीयासंप्रदानाख्ये विवादपदे क्रयात् स्वत्वोत्पत्तावपि तस्य सप्रतिबन्धत्वात् परावर्तनीयतेति संगतिः । न च गोप्याधिवत् सोपाधिकस्वत्वेऽपि ऋणादानान्तःपातित्वमस्य । तत्र गोप्याधौ परिभाषामूलं स्वत्वस्य सोपाधिकत्वम् । अत्र त्वनुशयमूलमित्यनयोः

 S. VILASA
7