पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/८५

पुटमेतत् सुपुष्टितम्
54
श्रीसरस्वतीविलासः

"साक्षिसभ्यार्थसन्नानां दूषणे दर्शनं पुनः ।
स्ववाचैव जितानां तु नोक्तः पौनर्भवो विधिः" ॥ इति ।

अत्र "व्यवहारान् नृपः पश्येत्" इति विधिः स्वापराधेन व्यवहारस्य समाप्तत्वात् स्ववागनुसरणरूपछलमेवावलम्बते । न तु प्रमाणान्तरगवेषणं विलम्बत्वाद्विधेरिति । "तेषामाद्यमृणादानं" इत्यादिमानवक्रमेणापि संगतिर्वक्तुं शक्यते, ग्रन्थविस्तरभयान्नोच्यते । एतच्च सर्वसंगतिकथनं तत्तद्विवादपदविवरणावसरेऽपि सम्यङ्निरूपितमपि शास्त्रार्थं करतलामलकी चिकीर्षुणा गौरवसहिष्णुना ग्रन्थकारेण सङ्क्षेपतो निरूपितमिति न पौनरुक्त्यम् । पुत्रपौत्राद्यधिकारिणा बाल्यानन्तरं कालद्वैगुण्यादिप्रकारेण ऋणं देयम् ।

देयादेय ऋणे

 द्यूतादिकुत्सितकुटुम्बभरणाद्यावश्यकेतरकार्यार्थं पित्रादिकृतं ऋणमदेयम् । बन्धग्रहणादिधनप्रयोगधर्माः शनैः कीर्त्यादिपृथुधनादानधर्माश्च यस्मिन् विवादविषये उक्ताः तत्परमृणादानमिति ।

"करण्डस्थमसंख्यातमनाख्यातमदर्शितम् ।

परहस्ते दत्तमुपनिधिकमिति द्वितीयं विवादपदम् । एतदेव संख्यातं चोन्नक्षेप इत्यतो न भिन्नं विवादपदम् । दायादेभ्यः भयात् राजचोरभयाच्च स्थाप्यतेऽन्यगृहे द्रव्यं न्यास इति न पृथग्विवादपदम् । वणिजो वाणिज्यं ऋत्विजो यज्ञं कृषीवलाः कृषिं हेमकारादयः शिल्पिनः शिल्पं नर्तकादयो नृत्यादिकं स्तेनाः स्तेयं यत्र संहत्य कुर्वते तत्संभूय क्रिय