पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/८६

पुटमेतत् सुपुष्टितम्
55
व्यवहारकाण्डः

माणं वाणिज्यादि कर्म समुत्तिष्ठतेऽनेनेति व्युत्पत्त्या संभूय समुत्थानाख्यं व्यवहारपदम् । यत्र स्वर्णकारादिभ्यः प्रीत्यादिना दत्तं द्रव्यं वैगुण्यादिना तेभ्यः पुनरपहार्यं दत्तस्याप्रदानमस्मिन् विद्यत इति दत्ताप्रदानिकं नाम विवादपदम् । कर्मकाराद्यवैगुण्याद्दत्तस्यानपाकर्म-- अनपनयनमस्मिन्निति दत्तानपाकर्मापि विवादपदमित्यतो न पृथगभिहितम् । अतश्च देयमदेयं दत्तमदत्तमिति द्रव्यभेदेन चातुर्विध्यमविरुद्धं । देयमनिषिद्धदानक्रियानिर्वर्तकम् । दत्तं दाने सति संप्रदानादनपहार्यम् । अदत्तं चापहार्यमिति यच्छिष्यादेश्शुश्रूषादिकमङ्गीकृत्य गुर्वाद्याज्ञाकरत्वाद्यकरणं तदभ्युपेत्याशुश्रूषाख्यं विवादपदम् । शिष्यशब्दोऽन्तेवासिभृतककर्मकृद्दासानामुपलक्षक इति तन्मूले न पृथग्भिद्यत इत्येकमेव पदम् । ईदृशस्य देयमीदृशस्यादेयं दत्तमस्य एवंविधात्प्रत्यादेयं क्वचिद्द्विगुणमादेयमित्याद्युक्तम् । यत्र विवादे तद्वेतनस्य भृतेरनपाकर्म-- अनपनयनं विद्यते तद्वेतनानपाकर्माख्यं विवादपदम् । स्वामिनोऽसमक्षं याचितान्वाहितन्यासादिकं परद्रव्यं विक्रीयते असावस्वामिविक्रयः । सोऽस्मिन् व्यवहारे निर्णेय इत्यस्वामिविक्रयाख्यं विवादपदम् । मूल्येन विक्रयपण्यं क्रेतुर्यन्न प्रदीयते तद्विक्रीयासंप्रदानम् ।

पण्यं षड्विधम्,

गणिततुलितमेयक्रियारूपकान्तिभिः पण्यं षड्विधम् ।

 गणितं नारिकेळादि । तृलितं हिङ्ग्वादि । मेयं व्रीह्यादि । क्रिया-- वाहनादिदोहनादिक्रिया गोमहिष्यादेः । कान्त्या