पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/८७

पुटमेतत् सुपुष्टितम्
56
श्रीसरस्वतीविलासे

रत्नादि । रूपतः पण्याङ्गनादि । अतश्च क्रमुकादीनां तुलितपण्यविशेषत्वात् तन्मूलेन विवादपदस्य न पृथग्भेदः । यः क्रेता मूल्येन पण्यं क्रीत्वा अपरामर्शपूर्वकं मन्यते, तत्क्रीत्वानुशयाख्यं विवादपदम् । गणश्रेणिसमूहनार्थं जातानां स्थिरीकरणरूपस्य समयस्यानपाकर्म-- अनुल्लङ्घने यत्तत्समयानपाकर्म । विरुद्धलक्षणया दर्शादिवत्समयानपाकर्माख्यं विवादपदम् । संविद्व्यतिक्रम इत्येतस्यैव नामान्तरम् । पाषण्डपूगाः श्रेणिनैगमानां सङ्घाः । समूहस्तु ब्राह्मणानां संहतिः । व्रातः आयुधधराणां व्रततिः ।

 यत्र केदारसेतुनिकृष्टाकृष्टमर्यादानिश्चयाः क्षेत्रविषयाः तत् [१]क्षेत्रविवादाख्यं पदम् । तच्चाधिक्यन्यूनताभेदात् षड्विधम् । कंचिद्भूभागमधिकृत्य ततोऽधिका भूरस्ति नवेति विवादे आधिक्यनिबन्धनः । एतावती भूस्तव नेत्युक्ते ममैतावत्यस्तीत्येवंविधो न्यूनता हेतुकः । अस्यां भुवि ममांशोऽस्तीत्युक्ते नेत्येवंविधोंशास्तित्वकारितः । अत्र तवांशो नास्तीत्युक्ते विद्यत इत्येवंविधोंऽशो नास्तित्वनिमित्तकः । मदीया भूः त्वया प्रागभुज्यमानैव इदानीं भुज्यत इत्युक्ते प्रागपि भुक्तिरस्तीत्येवंविधः अभोगभुक्तिबीजकः । इयं मर्यादा मदीयाया भुव इत्युक्ते नेत्येवंविधः सीमासंभवः । अतश्च न्यूनतादीनां तदनतिरेकान्न तन्मूलेन भेदः ।



  1. तत् क्षेत्रजविवादाख्य--& कोशपाठः.