पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/८८

पुटमेतत् सुपुष्टितम्
57
व्यवहारकाण्डः

 तस्य सीमाविवादस्य पाञ्चविध्यम् । ध्वजनीमात्स्यानैदानीभयवर्जिताराजशासनानीताविषयत्वात् । अतो ध्वजिन्यादिभेदेन पृथग्भिद्यते विवादपदम् । ध्वजिनी-- वृक्षादिना लक्षिता । मात्स्या-- जलेन । नैदानी- धूततुषादिना । भयवर्जिता-- उभयवादिसंप्रतिपन्ना । राजशासनानीता-- राजेच्छया निर्मिता । यत्र स्त्रीपुरुषयोर्मिथुनीभावो विषयीकृतः स च स्त्रीपुंससंबन्धाख्यं विवादपदम् । अस्यैव स्त्रीसंग्रहणमिति नामान्तरम् । पित्र्यादेरर्थस्य पुत्रादिभिर्विभागः प्रकल्प्यते यत्र स दायभागो नाम विवादपदम् । यत्किञ्चित्कर्म मारणचौर्यपरदाराभिमर्शनादिकं सहसा बलेन बलदर्पितैः कृतं निर्णीयते तत्साहसमिति साहसाख्यं विवादपदम् । यद्वचनं देशजातिकुलादीनां बाधकत्वेनात्यन्तदुःखकरार्थं तद्वाक्पारुष्यं विवादपदम् । यत्र पदे परगात्रेषु हस्तपादायुधादिभिः कृतस्याभिद्रोहस्य भस्मादिभिश्चोपघातस्य निर्णयः क्रियते तद्दण्डपारुष्याख्यं विवादपदम् ।

 ननु पारुष्यद्वयस्य स्त्रीसंग्रहणस्य च साहसविशेषत्वात् पदान्तरत्वोक्तिर्न युक्ता, सत्यम्, बलदर्पावष्टम्भोपाधिना साहसं भिद्यते इति दण्डातिरेकार्थं पृथगभिधानम् । अक्षादिभिः पणपूर्वकं क्रीडनं कौटिल्येन कृतं यत्र विषयीक्रियते तद्द्यूताख्यं विवादपदम् । तथा कूटसाक्षिभिः पणपूर्वकं देवनं कृतं तद्विषयीक्रियते यत्र तत्समाख्यं विवादपदम् । अनयोः पणपूर्वकक्रीडनमूलकत्वात् न भेदः ॥ तथा च निघण्टुः--

"अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ।

 S.VILAS.
8