पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/८९

पुटमेतत् सुपुष्टितम्
58
श्रीसरस्वतीविलासे

 "प्राणिभिः क्रियमाणं तु स विज्ञेयस्समाह्वयः" ॥ इति ॥ यत्र नृपेण यद्यत्स्वाज्ञातिक्रमादौ प्रतिवादितत्वमास्थाय निर्णेतव्यं यच्च ऋणादानादिपूर्वोक्तपदेषु नोक्तं तत् प्रकीर्णकाख्यं पदम् । स चैवमष्टादशप्रभेदभिन्नो व्यवहारः पुनर्द्विविधः । सपणः अपणश्चेति । नारदादयस्तु सोत्तरोऽनुत्तरश्चेत्याहुः । प्रतिज्ञाविलेखनात्पूर्वं यत्र व्यवहारे दण्डाभ्यधिकः पणः उभाभ्यामुपेयते अन्यतरेण वा स सोत्तरो व्यवहारः । तदन्योऽनुत्तरः । अतश्च याज्ञवल्क्यनारदोक्तयोः सपणापणसोत्तरानुत्तररूपयोर्भेदयोः पृथग्भेदो नास्ति । तथाप्यन्येऽपि भेदाः नारदादिभिरुक्ताः--

 "चतुष्पादचतुस्साधनचतुर्भूतचतुर्व्यापिचतुष्कारित्वरूपाः अष्टाङ्गाष्टादशपदशतशाखत्रियोनिद्व्यभियोगद्विवारद्विगतिरूपाश्च"

 धर्मः व्यवहारः चरित्रं राजशासनं चत्वारः पादाः । अतश्चतुष्पाद्व्यवहारः । अत्रोत्तरः पूर्वबाधकः । तथा च हारीतः--

"धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया ।
चतुष्पाद्व्यवहारोऽयमुत्तरः पूर्वबाधकः" ॥ इति ॥

ननु प्रतिज्ञोत्तरप्रत्याकलनप्रमाणनिर्णयश्चतुष्पात्त्वं न धर्मादिभिरिति चेत् । मैवम् । निर्णयवादो धर्मानुसारेण चतुर्विधः । तत्र यदनुसारेण यो निर्णयः कृतः स तच्छब्देनोच्यते । तेन धर्मादिभिरपि चतुष्पात्त्ववर्णनं युक्तमेव । धर्मो नाम पादः यत्र विवादे धर्ममूलनिर्णयेनैव दोषकारित्वं दोषकारी, स्वकं धनं धनस्वामी च प्राप्नोति स धर्म इत्युच्यते । धर्मशास्त्रनिरूपितप्रतिज्ञोत्तरानुसारेण निर्णयो व्यवहाराख्यः