पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/९१

पुटमेतत् सुपुष्टितम्
60
श्रीसरस्वतीविलासे

त्कृतं निवेशितं च शिलातलपुस्तकादौ राज्ञा तत्" इति तदा चरित्रेण व्यवहारो बाध्यते । व्यवहारतः प्राप्तस्य दण्डस्य चरित्रतो निवृत्तत्वात् । चरित्रमपि क्वचिद्राजाज्ञया बाध्यते कुलगृहाभ्यन्तरेन केनचिद्राजपुरुषेण प्रवेष्टव्यमिति चरित्रमीदृशं कृतम् । ततो कश्चिदपराधी ज्ञातः प्रविष्टोऽन्तःपुरम् । ततो राज्ञा कश्चिद्राजपुरुष आज्ञप्तः "गृहाभ्यन्तरम(पि)भिप्रविश्य स दुष्ट आनेतव्य" इति । तदा चरित्रमपि राजशासनेन बाध्यते । दुष्टनिग्रहस्यावश्यकर्तव्यत्वेन चरित्रतो राजशासनस्य बलवत्त्वात् । चतुस्स्थानानि-- चत्वारि स्थानानि सत्यसाक्षिपुस्तकरणराजशासनरूपाणि यस्य सः चतुस्स्थानः । एतदुक्तं भवति-- धर्मस्य सत्यं स्थानम् । व्यवहारस्य साक्षिणः । चरितस्य पुस्तकरणं । लेख्यं राजाज्ञेति । साक्षिग्रहणं धर्मशास्त्रस्थदिव्येतरप्रमाणप्राप्त्युपलक्षणार्थम् । चतुस्साधनः-- साधनानि सामाद्युपाया अस्मिन्निति स तथोक्तः । चतुर्भ्यो वर्णाश्रमेभ्यो हितः चतुर्हितः । चतुर्व्यापी-- चतुरः कर्तॄन् साक्षिणश्च सभ्यान् राजानं व्याप्नोतीति । चतुष्कारी-- चतुरो धर्मार्थयशोलोकानुरागान् करोतीति । अष्टाङ्गः-- अष्टौ राजराजपुरुषसभ्यशास्त्रगणकलेखकहिरण्योदकान्यङ्गानि यस्य सोऽष्टाङ्गः । एतेषामुपयोग उत्तरत्र वक्ष्यते । अष्टादश व्यवहारपदानि व्याख्यातानि ।

 शतशाखः-- शतशब्दः सहस्रादिसंख्योपलक्षकः बहुशाख इति यावत् । त्रियोनिः-- त्रीणि कामक्रोधलोभात्मकानि तेभ्यो यथासंभवं प्रवर्तत इति कृत्वा त्रियोनिरुच्यते । द्व्यभियोगः-- द्वौ शङ्काभियोगतत्वाभियोगौ यस्य स द्व्यभियोगः । शङ्काभियोगः