पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/९२

पुटमेतत् सुपुष्टितम्
61
व्यवहारखण्डः

असद्भिः कितवस्तेनादिभिः संसर्गात् भवति । तत्वाभियोगो हेडाभिदर्शनमेकदेशोपालम्भः प्रत्यक्षदर्शनं वा । क्वचिन्निक्षेपादिशङ्का सत्संयोगादपि भवतीति असत्संयोगादित्युदाहरणमात्रमित्यवगन्तव्यम् । द्विद्वारस्तु द्वे द्वारे कार्यारम्भप्रवृत्तिपूर्वपक्षोत्तरपक्षौ । यस्मिन्वादे स द्विद्वारः । द्विगतिस्तु द्वे गती भूतच्छले यस्य सः । भूतं-- तत्वार्थसंयुक्तं, छलं प्रमादादियुतम् ।

 हारीतेनापि केचन भेदा उक्ताः । एकमूलः द्विरुत्थानः द्विग्कन्धः द्विफलः । कात्यायनस्तु तान् व्याचष्टे । एकं साध्यं मूलं यस्य स एकमूलः । द्विरुत्थानः-- द्विः द्विसंख्याभ्यःवृत्तमुत्थानं यस्मिन्निति द्विरुत्थानः । सुप्सुपेति समासः । एतदुक्तं भवति । [१]देयाप्रदानहिंसारूपोत्थानद्वयं [२]समादिति द्विरुत्थानः । [३]द्व्युत्थान इति यावत् । धर्मशास्त्रार्थशास्त्रात्मकं स्कन्धद्वयं यस्य सः द्विस्कन्धः । द्वे फले जयपराजयरूपे यस्य स द्विफलः । कात्यायनेनाप्यपरो भेदो दर्शितः । पूर्वोत्तरपक्षप्रत्याकलितक्रियापादभेदात् चतुष्पाद्व्यवहार इति । प्रत्याकलितं उक्तिस्वीकारानन्तरं विवदमानयोः कस्यात्र क्रियोपन्यासो न्याय्य इति प्राड्विवाकादीनां विमर्शनम् । [४]क्रियापादो भेदो नाम लिखितादिप्रमाणनिर्देशः । विवादात्मकव्यवहारपर्यवसानभागतया प्रत्याकलितक्रिययोरपिव्ययहारत्वात् । चतुष्पात्त्वमुक्तमस्मिन् पक्षे । प्रत्याकलितवादः तृतीयः पादः । तथा क्रमस्य विवक्षितत्वात् ।



  1. देवाप्रदानरूपहिंसोत्थानः--A कोशपाठः।
  2. सामादिभिर्द्विरुत्थानः-- B कोशपाठः।
  3. द्व्युर्द्वारः-- D कोशपाठः।
  4. क्रियाल्पभेदो--B कोशपाठः.