अथ तृतीयोल्लासः.
धर्मस्थाननिरूपणम्.
अथ व्यवहारस्वरूपमात्रनिरूपणानन्तरं सप्रपञ्चं अष्टादशप्रभेदभिन्नो व्यवहारो निरूपयिष्यते । तदुपयोगित्वेन आदौ धर्मस्थानावस्थाननिरूपणं न्याय्यम् । यद्यपि धर्मस्थाने अवस्थितस्य राज्ञो व्यवहारदर्शनविधेः धर्मस्थानमादौ निरूपणीयम्, तथापि धर्मस्थान एव सर्वव्यवहारनिर्णय इति नियमाभावात् व्यवहारनिरूपणानन्तरं तन्निरूपणमित्यदोषः ।
धर्माधिकरणव्यवस्था.
यद्वा पूर्वं व्यवहारस्संक्षिप्योक्तः । इदानीं धर्मस्थानप्रतिपादनानन्तरं व्यवहारः प्रपञ्च्य इति नोक्तदोषः । यत्र स्थाने आवेदितव्यतत्वनिष्कर्षः धर्मशास्त्रविचारेण निर्णेतृभिः क्रियत इति धर्मस्थानम् । अस्यैव धर्माधिकरणमिति नामान्तरम् । यत् स्थानं धर्मशास्त्रैरधिक्रियत इति धर्माधिकरणमिति । तच्च धर्माधिकरणं प्राच्यां दिशि कार्यम् । 'धर्मस्थानं प्राच्यां दिशि अग्न्युदकैः समवेतं कुर्यात्' इति शङ्खस्मरणात् । प्राच्यां दिशि राजमन्दिरादिति शेषः । अत्र लक्षण्यां सभां प्राङ्मुखीं गन्धमाल्यधूपासनबीजरत्नप्रतिमालेख्यदेवताग्न्यम्बुयुतां कल्पयेत् । एवं कल्पितां सभां प्रातः नृपः प्रविशेत् ।
"गुरून् ज्योतिर्विदो वैद्यान् देवान् विप्रान् पुरोहितान् ।
यथार्हमेतान् संपूज्य सुपुष्पाभरणाम्बरः" ॥
अभिवन्द्य च गुर्वादीन् सुमुखः प्रविशेत् सभाम् । इति बृहस्पतिनोक्तत्वात् ॥