पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/९५

पुटमेतत् सुपुष्टितम्
64
श्रीसरस्वतीविलासे

 अत्र पुरोहितादीनिति बहुवचनं 'पाशान्' इतिवत्कर्ममात्रस्याभिधायकम् । न तु बहुत्वस्यापि । पुरोहितस्यैकत्वात् । नृपतिरपि ब्राह्मणसहितः प्रविशेत् ।

"व्यवहारान् दिदृक्षुस्तु नृपतिर्ब्राह्मणैस्सह ।
मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम्" ॥

इति मनूक्तत्वात् । चशब्दः प्राड्विवाकपुरोहितसभ्यमन्त्रिगणकलेखकसाध्यपालहिरण्यधर्मशास्त्रैरपि सहेति ज्ञापनार्थः । "नृपश्च पुरुषसभ्यगणकलेखकहेमाग्न्यम्बुप्राड्विवाकादिसाधनसंपन्नो व्यवहारं पश्येत्" इति गौतमस्मरणात् ।

"विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।
प्रियपूर्वं प्राड्वदति प्राड्विवाकस्ततस्स्मृतः" इति ॥

पूर्वोत्तरपक्षौ पृच्छतीति प्राड्, निर्णयं विशेषेण प्रवक्तीति विवाक इति यौगिकी तस्य संज्ञा । प्राड्विवाक इति पृषोदरादित्वात् साधुः । अष्टादशविवादपदाभिज्ञः तद्भेदाष्टसहस्रवित् श्रुतिस्मृतिपरायणः आन्वीक्षिक्यादिकुशलः ब्राह्मणः प्राड्विवाकः ।

"सप्राड्विवाकस्सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः" ॥ इति ।

प्राड्विवाकः-- पूर्वोक्तलक्षणः । तेन सह वर्तते इति सप्राड्विवाकः । अमात्यलक्षणलक्षितैः युक्तः सामात्यः । सर्वशास्त्रज्ञानालोभन्यायभावाप्रज्ञत्वक्रमायातत्वानि अमात्यलक्षणानि ।

शूद्रस्य व्यवहारविचारणनिषेधः

स च विप्रक्षत्रियवैश्यानामन्यतम एव न शूद्रः ।