पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/९७

पुटमेतत् सुपुष्टितम्
66
श्रीसरस्वतीविलासे

हारान् नृपः पश्येत्' इत्यादियाज्ञवल्क्यवचनव्याकोपः । राजशब्दप्रयोगो राज्यकर्तरि गौणवृत्त्या, अवेष्ट्यधिकरण एवोक्तत्वात् । यदा नृपतिस्स्वयं कार्यनिर्णयं न करोति व्यासङ्गात् तदा तत्र बहुश्रुतं दक्षं कुलीनं मध्यस्थं शास्त्रपारगमनुद्वेगकरं स्थिरं परभीरुं क्रोधवर्जितं धर्मिष्ठं ब्राह्मणं नियुञ्जीत । यत्र ब्राह्मणो न स्यात्तत्र क्षत्रियं योजयेत् ।

"वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ।
यस्य राज्ञस्तु कुरुते शूद्रो धर्मविवेचनम् ।
तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः" ॥

राष्ट्ररञ्जनार्थं राज्ञा कतिपयैर्वणिग्भिरपि सह संसदि स्थातव्यम्--

"चतुरो वणिजस्तत्र कर्तव्या न्यायदर्शिनः" ॥

गणकलेखकावपि--

"शब्दाभिधानतत्वज्ञौ गणनाकुशलावपि ।
नानालिपिज्ञौ कर्तव्यौ"

तथा तत्र संसदि होरागणितसंहितारूपस्कन्धत्रयाभिज्ञं स्फुटप्रत्ययकारकं श्रुताध्ययनसंपन्नं ज्योतिर्विदं योजयेत् । साध्यपालस्तु शूद्र एव क्रमायातः दृढस्सभ्यानुमतः अर्थिप्रत्यर्थिसाक्ष्यादीनामाहानादिकार्यस्य कर्ता कर्तव्यः । अग्न्युदके दिव्याद्यर्थं संपाद्ये, शपथार्थं हिरण्यकोशशकृद्दर्भा निधातव्याः, एवं मन्वादिभिः श्रेष्ठं निर्णयस्थानमुक्तम् ।

भृगुप्रभृतिभिस्तु जघन्यान्यपि निर्णयस्थानान्युक्तानि ।

साधारणनिर्णयस्थानानि.

सैनिकानां सैनिका निर्णयस्थानम् । आरण्यकानामारण्यकाः ।