पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/९८

पुटमेतत् सुपुष्टितम्
67
व्यवहारकाण्डः

सार्थिकानां सार्थिकाः । उभयवासिनां ग्रामाः । कुलिकसार्थमुख्यपुरग्रामनिवासिनामुभयानुमतत्वात् एवं च प्रत्येकनियतानि । ग्रामपौरगणश्रेणिचातुर्विद्यवर्गकुलकुलिकनियुक्त नृपतिभेदेन दशविधं साधारणं स्थानम् । ग्रामो नाम ग्रामाकारेणावस्थितो जनः । पौरः पुरवासिनां समूहः । कुलानां समूहो गणः । श्रेणयः रजकाद्यष्टादशहीनजातयः । चातुर्विद्यः आन्वीक्षिक्यादिविद्याचतुष्टयोपेतः । चातुर्विद्यश्चेति चशब्देन विद्वद्राजपूरुषादिसमुच्चयः स्वीकृतः ।

एकस्य धर्मनियन्तृत्वनिषेधः

"तस्मान्न वाच्यमेकेन विधिज्ञेनापि धर्मतः ॥"

इति पितामहेन एकस्य धर्मकथननिषेधात् । वर्गिणो गणादयः

"गणाः पाषण्डपूगाश्च व्राताश्च श्रेणयस्तथा ।
समूहस्थाश्च ये चान्ये वर्ण्याख्यास्ते बृहस्पतिः ॥"

इति । बृहस्पतिग्रहणं-- गणादिषु इयमाख्या पूर्वमेव प्रसिद्धा इति दर्शयितुम् । आयुधधारिणां समूहो व्रातः । कुलान्यर्थिमत्यर्थिनोस्स्वगोत्राणि । कुलिका-- केचन अर्थिप्रत्यर्थिनोः गोत्रजा वृद्धाः । नियुक्ताः-- प्राड्विवाकसहितास्त्रयस्सभ्याः । नृपतिः ब्राह्मणादिसहितः ।

 सा सभा अप्रतिष्ठिता प्रतिष्ठिता मुद्रिता शास्त्रिता चेति चतुर्विधा । आरण्यकादिस्थानत्रये या सभा सा अप्रतिष्ठिता, प्रायेण देशान्तरगमनयोगित्वादुभयवादिप्रतिपन्नेषु दशस्थानेषु तदभावात् प्रतिष्ठिता । नियुक्तस्थाने पुनः मुद्राहस्तादिप्राड्विवाकाद्यधिष्ठिता मुद्रिता । नृपस्थाने शास्त्रनियन्त्रृकत्वात् शास्त्रिता ।