पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/९९

पुटमेतत् सुपुष्टितम्
68
श्रीसरस्वतीविलासे

"प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता ।
मुद्रिताऽध्यक्षसंयुक्ता राजयुक्ता तु शास्त्रिता ॥

इति स्मृतेः । अध्यक्षः-- प्राड्विवाकः । एतेषां प्राबल्यमुत्तरोत्तरमस्यैव ।

"कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः ।
प्रतिष्ठा व्यवहारस्य पूर्वेभ्यश्चोत्तरोत्तरः ॥"

इति नारदोक्तेः नृपस्य प्राबल्यं । अतश्च--

"पूर्वस्थानगता वादा धर्मतोऽधर्मतोऽपि वा ।
राजस्थानं समाश्रित्य पूर्ववादं भजन्ति ते’ ॥

इति पितामहेनोक्तेः, पूर्ववादं-- पूर्वपक्षमित्यर्थः । अत्र सभायां राजा पूर्वाभिमुखं उपविशेत् । सभ्यास्तु उदङ्मुखाः । गणकः पश्चिमाभिमुखः । लेखको दक्षिणाऽभिमुख उपविशेदिति नियमार्थोऽयमारम्भः । राजव्यतिरेकेण प्राड्विवाकादिभिः निर्णयमात्रमेव कार्यम्, साहसविवादे तु निर्णयमात्रमपि न कार्यम् । यथाऽऽह बृहस्पतिः--

"राज्ञा [१]येऽभिहितास्सम्यक्कुलश्रेणिगणादयः ।
साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ॥

इति । "वाग्दण्डो धिग्दमश्चैव विप्रायत्तावुभौ स्मृतौ ।

अर्थदण्डवधावुक्तौ राजायत्तावुभावपि ॥
इति स्मरणात् ।

धर्मस्थापनफलं.

"अज्ञानतिमिरोपेतान् संदेहपटलान्वितान् ।
निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ।
इह [२]कीर्तिमवाप्नोति लभते स्वर्गतिं च सः ॥"



  1. ये निहिताः विदिताः.
  2. कीर्ति राजपूजां.