पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
सङ्क्षेपतः पदार्थनिरूपणम्



पतः प्रतिजानीते


 मूलप्रकृतिरवकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ॥
 षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः ॥ ३ ॥


 “‘मूल-' इति । संक्षेपतो हि शास्त्रार्थस्य चतस्रो विधाः—कश्चिदर्थः प्रकृतिरेव, कश्चिदर्थो विकृतिरेव, काश्चित्प्रकृतिविकृतिः, कश्चिदनुभयरूपः ।

 तत्र का प्रकृतिरित्युक्तम्-‘मूल प्रकृतिरविकृतिः” इति । प्रकरोतीति प्रकृतिः प्रधानम् , सत्वरजस्तमसां साम्यावस्था, स। अविकृतिः, प्रकृतिरेवेत्यर्थः। कस्मादि-


प्रतिजानीते -पूर्वोक्तार्थनिरूपणोत्तरकालकर्तव्यतया संक्षेपतः शास्त्रार्थभावं बोधयतीत्यर्थः । स्वमते न । षट्पदार्थविभागनियमः षोडशपदर्थविभागनियमो वेत्याह संक्षेपतइत्यादिना । यथा चै तत्तथैतदार्य्यां व्युत्पादयिष्यति । प्रकृतिसामान्यलक्षणमाह तत्रेति । प्रकरोतीति । प्रकृतिस्तु स्वेतरकरणम् । मूलप्रकृतिलक्षणमाह सत्वरजस्तमसाभिति । अत्र सत्वादीनि द्रव्याणि न गुणाः। संयोगविभागवत्त्वात् , लघुवचलत्वगुरुत्वादिधर्मकत्वाञ्च । तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात् पुरुषपशुबन्धक- त्रिगुणात्मकमहदादिरज्जुनिर्मतृत्वाञ्च गौणः । अत एव गुण- इति परार्थ इति वक्ष्यति । तेषां सत्त्वादिद्रव्याणां या साम्यावस्था न्यूनाधिकभावेनासंहननम् । अकार्यावस्थत्वमित्यर्थः। अन्यथा वैष- म्यवस्थायां प्रकृतिनाशप्रसङ्गात् । न त्वत्र त्र कार्यावस्थाविरोध्यवस्था- वत्त्वम् । तस्याश्च कायोवस्थादशायामसंभवेन मूलप्रकृतेरविकृतित्व- रूपनित्यत्वं न संभवतीत्याशङ्क्याह प्रकृतिरेवेति । एवं चैवकार- समभिव्याहारात् ‘कायेभिन्नगुणत्रयत्वम्'इति मूलप्रकृतेर्लक्षणमिति सूचितमिति भावः । अत एव ‘सत्त्वरजस्तमसां साम्यावस्था प्र