पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
सटीकसाङ्ख्यतत्वकमुद्यम् ।



मुत्पत्तिस्थितिज्ञप्तिरूपद्वारभेदात्त्रिधा । तथाहि-‘घटो यदि घटजन्यः स्यात्तहैिं घटभिन्नः स्यात्’ । नचैतद्विपर्ययानुमाने घटत्वस्य हेतोरसाधारणतया विपर्ययापर्यवसितत्वमस्येति वाच्यम् । विशेष- दर्शने ह्यसाधारणस्यादोषत्वात् । संशयस्य सम्प्रतिपक्षस्य वा दुष्टबीजस्यानुत्थापनादिति । स्थितौ ‘यद्ययं घट एतद्धटवृत्तिः स्यात्तदा तथा प्रतीयेत’’। ज्ञप्तौ तु ‘घटज्ञप्तिर्यदि एतद्धटज्ञप्तिज- न्या स्यादेतज्ज्ञप्तिभिन स्यात् । नचेष्टापत्तिः । स्वज्ञप्तेः स्वज्ञप्तिजन्यत्वनियमे त्वनवस्थानात् । स्वस्य स्वापेक्षापोक्षित्वं स्वप्रयोज्यप्रयज्यत्वरूपमारोप्यानेिष्टप्रसङ्गोऽन्योन्यश्रयः । अय- मप्युत्पत्स्यादिरूपद्वारभेदात्त्रिधा । तथाहि-"घटो यदि घटप्रयो ज्यजन्यः स्यात्तहैिं घडभिन्नः स्यात्। दृष्टं हि पटरूपं तन्तुप्रयो- ज्यपटजन्यं तन्तुभिन्नमिति । स्थितौ तु ‘यद्ययं घट एतद्धटप्रयोज्य वृत्तिः स्यात्तद तथा प्रतीयेत', दृष्टं हि पटरूपं तन्तुमयज्यप- टवृत्ति तथा प्रतीतं चेति । ज्ञप्तौ तु ‘घवज्ञप्तिर्यदि घटज्ञप्तिप्रयोज्य ज्ञप्तिजन्या स्यात्तर्हि एतज्ज्ञप्तिभिन्न स्यात्’ । दृष्टा हि कृत्तिज्ञन- प्रयोज्येच्छजन्या ज्ञानभिन्ना चेति । नचान्योन्याश्रयस्यात्माश्र- यनियतत्वेनावश्यकत्वाद्, लाघवाच्चात्माश्रयदोष इति वाच्यम् । साक्षात्स्वापेक्षाऽभावात् । परम्परया व तसंभवे, आत्माश्रयनिर्वा- हार्थं प्रथमोपस्थितस्य स्वतो दूषकत्वकल्पनात् । स्वापेक्षापेक्षापे- क्षितत्वमारोप्यानिष्टप्रसङ्गश्चक्रकम् । अत्र त्रिकक्षत्वमविवक्षितम्, चतुःकक्षादेरपि चक्रकस्यात् । तथैव हि तान्त्रिकव्यवहारात् । इद- मप्युपत्त्यादिदारभेदात्रिविधम् । तथाहि-"घटो यदि घटपेक्षापेक्ष- जन्यः स्यात्तर्हि घटभिन्नः स्यात ’ । स्थितौ तु 'यद्ययं घट एतद् घटोपेक्षापेक्षवृत्तिः स्यात्तर्हि तथा प्रतीयेत’ । ज्ञप्तौ 'घट ज्ञप्तिर्यदि घटज्ञप्त्यपेक्षापेक्षजन्या स्याद्, एतज्ज्ञप्तिभन्न स्यात्’ । दृष्टान्तस्तु पूर्ववत् । पञ्चकक्षादिभेदे आपत्तिप्रयोजकीभूतरूप-