पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
सटीकसारूयतत्वकौमुद्यम् ।



नुचितमिति वाच्यम् । कारणोपपत्तिविशेषदर्शनाभावसामग्रीकृ- तत्वे न तद्विलक्षणत्वात् । नहि संशये कारणोपपत्तिरस्ति, विशेष दर्शनप्रमाणेन निश्चयो भवति, नचास्मिन् विशेषदर्शनमस्तीति ॥ नच तर्कोऽनुमाने हेतुः, ‘तक,न्यायोऽन्वीक्षा' इत्यनुमानमाख्याय- त इति अनुमानपर्यायवादिति वाच्यम् । आपाद्यव्यतिरेकनिश्चयरू- पबाधघटितसामग्रीकत्वेन तर्कस्यानुमानतिरिक्तत्वेऽवगते प- र्योयत्वबोधकवाक्यस्याप्रमाणत्वेन तत्साधकत्वाभावात् । उ- क्ततर्कें पक्षविशेष्यकपाद्यभावनिश्चयरूपबाधनिश्चयसहकृतपाद्य- व्याप्यापादकवत्ताज्ञानं कारणम् , तच्च पक्षधर्मतांशे आहार्यम्, अप्रामाण्यज्ञानास्कन्दितं वा । स च तर्क आपदकबुद्धों प्रति- बन्धकः । प्रतिबन्ध्यप्रतिबन्धकभावश्च-तद्धमवच्छिन्नविशेष्यकत- द्धर्मावच्छिन्नपादकापत्तित्वेन दोषविशेषाजन्यानाहार्यतद्धर्माव- चिच्छन्नविशेष्यकतद्धर्मावच्छिन्नविशिष्टबुद्धित्वेन । ‘रूपं यदि प- रिमाणवरस्याद्द्रव्यं स्याद्’ इत्यापत्तेः ‘रूपं परिमाणवन्न वा' इत्यादिसंशयचत् ‘गुणः परिमणवन्न वा’ इत्यादिसंशये ऽपि प्रतिबन्धकत्ववारणाय तद्धर्मावच्छिन्नविशेष्यकत्वद्वयम् । तादृ- शापत्तेः ‘रूपं द्रव्यत्ववन्नव’ इत्यादिसंशयमतिबन्धकत्ववारणाय त- द्धर्मावच्छिन्नापादकत्वमापत्तिविशेषणम् । तद्धर्मावच्छिन्नापादका- पत्तित्वञ्च स्वसमानाधिकरणस्वाव्यवहितोत्तरत्वसम्बन्धेन तद्ध- र्मावच्छिन्नवत्ता परामर्शविशिष्टचम् । नचापाद्यभेदेन परामर्शभेदादे- कस्यैव निर्वह्नित्वरूपापादकस्य विशिष्टबुद्धों निधूर्मत्वनिरालोक त्वाद्यपाद्यभेदेनानन्तप्रतिबन्ध्यप्रतिबन्धकभावापत्तिरिति वाच्यम् । इष्टत्वात् । तथाच पर्वतत्वावच्छिन्नविशेष्यकनिर्वह्नित्वविशिष्टबुद्धि- त्वेन प्रतिबध्यता पर्वतत्वावच्छिन्नविशेष्यकनिर्धूमत्व व्प्यय्नाप्यनि- र्वंह्नित्वत्वावचिछन्नवत्तनिश्चयाविशीष्टनिर्घूमत्वविधेयकापतित्व-पर्व तत्वावच्छिन्नविशेष्यकनिरालोकत्वव्याप्यनिर्वह्नित्वत्वावच्छिन्नवत्ता-