पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
सटीकसाङ्ख्यतत्वकौमुद्याम्।



प्तिप्रमाणेनैव व्यप्यव्यापकयोर्ग्रहणादवरोधेन निर्द्दोषत्वम्प्रसज्येत । नचेत्तर्हि प्रशिथिलमूलतयऽऽभासत्वमित्युभयथा पाशबन्धोऽनि वार्यः। नचाश्रयत्व माश्रयित्वञ्च भेदे प्रमितं, तद् यदि विवादाध्या- सितवेनोपेयते तदैकैकेन भेदापादने दोषस्त्रमस्त्येवेति वच्यम् । घटादौ प्रतियोगिभेदेन रूपाद्यश्रयत्वमृदाश्रयिवोभयोर्दर्शनेन व्यभिचारित्वात् । न च यदैतदेवैतदाश्रयादि स्यात्तदैतन स्या देतदारभ्भकद्रव्यतदाश्रितरूपादिवदित्येकप्रतियोगिकयोराश्रयत्वा- श्रयित्वयोर्भेदाव्यभिचारित्वमस्त्येवेति वाच्यम् । ‘एतद्धटः' । इत्येतेन प्रमिते धर्मिणि ‘एतद्धटो न स्याद्’इत्यापाद्यमा- नस्य भेदस्य व्य।हतत्ववेन प्रमाणबाध्यस्या पदयितुमशक्य- त्वत् । न च सर्वत्र तर्के अपाद्यस्य प्रमणबाध्यताऽनुकूलै- व प्रमाणबाध्यस्यैवापाद्यत्वादिति वाचयम् । पक्षे आपाद्या- पादकयोः सामानाधिकरण्याङ्गीकारे विरोधेनापाद्यासिद्धेर्विरो- धस्य दत्तजलाञ्जलितपत्तेश्च । यत्र क्वापि विद्यमानेन पादकेन यत्र क्वाप्यापाद्यपादने एकत्वभिमतानां सर्वेषामनेकत्व प्रसङ्गात् । ‘यदश्वरः कर्त्त स्यात्तर्हि रागादिमान्स्याद्’ इत्यादेरपि धर्म्मधमपाधिकस्यपाद्यस्य रागादिमन्त्रस्य प्रमाण बाध्यत्वेऽपि सतर्कत्वापत्तेः । एवं विपर्य्ययापर्यवसनमपि स्यात् । एवं हि विपर्ययो वक्तव्यः-यस्मादेतद्धट एतद्घटो भवति तस्मान्नैतदाश्रय इति । तन्न सम्भवति । एतदित्युद्दि- ष्टे धर्मिण्येतद्विधानासम्भवात् । उद्देश्यविधेययोः प्रकारभेद- स्याभावात् । न च । स्वपक्षसाधनार्थं प्रयुक्ते प्रसङ्ग विपर्य- यपर्यवसानमपेक्षितं, परपक्षबाधाय प्रयुक्त आत्माश्रये तु न विपर्ययपर्यवसानापेक्षेति युक्तम् । अस्य प्रसङ्गस्याऽऽभासतावा रणाय प्रसङ्गमूलव्याप्तिरवश्यमभ्युपेया, तया च प्रसञ्जित- स्यानेकत्वादेर्निषेधे तद्यतिरेकस्यैकत्वादेरप्रामाणिकत्वे तस्या-