पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
सङ्क्षेपतः पदार्थनिरूपणम्
 

कारान्न प्रमाणतुल्यत्वमिति वाच्यम् । ‘यदीइश्वरः कर्त्ता न स्या- तर्हि घटः स्याद्’ इत्यादितर्कस्यानुमानोपकारित्वापत्तेः । तुल्य- स्योपकारित्वे च प्रमाणस्यापि तर्कोपकारित्वं स्यात् । इष्टपत्तौ चन्योऽन्याश्रयादि स्यात् । प्रमाणोपकारिणः पूर्ववृत्तिस्वनियमेन समकालत्वनियमेन वाऽङ्कुरादिकार्यं सकर्त्तृकं नवति सन्देहे प्र- माणप्रवृत्तेः पूर्वं यदीदं सकतृकं न स्यात्तर्हैिं कार्यं न स्या- दाकाशवदिति प्रयोक्तुमशक्यतया प्रमाणाङ्गत्वासम्भवाच । त- र्कस्य प्रमाणोपकरणत्वेऽदृष्टादिकं कस्यचिप्रत्यक्षं प्रमेयत्वात्क- रतलवदित्यादेः केवलान्वयिनो विपक्षाभावेनानुकूलतर्कसम्भवे आभासत्वापत्तेश्चेति । यत्तु प्रमाणं प्रमेये वर्तमानं स्वसा- मग्रीसहितं प्रवर्तते, तथा च प्रतिबन्धकाभावस्यान्वयव्यतिरेका- नुविधायितया सामग्र्यन्तःपाते स्थिते साधके प्रमाणे प्रवृत्ते बाधकप्रतिबन्धानिवृत्तिस्तर्केण क्रियते इति तन्न । साध्यसन्देहे प्रमणप्रवृत्तेरर्वाक् तर्कप्रवृत्त्यसम्भवस्यानुपदोक्ततया बाधकप्रति- बन्धनिवर्त्तकत्वसम्भवात् । प्रतिबन्धकाभावस्य स्वज्ञानं प्रति विषयत्वेन कारणत्वंऽपि प्रतिबन्धकाभावत्वेन कारणत्वे माना- भावेन सामग्प्यन्तः पातित्वसम्भवाञ्च । ‘प्रतिबन्धकभावत्वेन कारणत्वे प्रतिबन्धोऽपि सामग्री’ इत्यभियुक्तोक्त्या सामान्यतः सामग्भवस्यैव प्रतिबन्धकतय मण्याद्यभावस्य प्रतिबन्धका- भावत्वे सिद्धे मण्यादेः सामग्रयभावत्वेन प्रतिबन्धकस्वसिद्धिः, तस्य प्रतिबन्धकत्वे सिद्धे मण्याद्यभावस्य प्रतिबन्धकाभावत्वेन कारणत्व सिद्धिरित्यन्योऽन्याश्रयः स्यात् । न च मण्याद्यभावस्योक्तरीत्या प्रतिबन्धकभवत्वेनाकारणत्वेऽपि मण्याद्यभावत्वेन कारणत्वं म- ण्याद्यभावे सति दाहस्तदभावे तदभाव इत्यनन्यथा सिद्धान्वयव्य- तिरेकसहकृतप्रत्यक्षमेव मानमिति वाच्यम् । मण्याद्यभावन्वयव्य- तिरेकयोर्दाहादि सामग्रीकालीनदाहनुत्पादस्याऽग्रिमसमयसम्बन्ध-