पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

साङ्ख्यकारिकाः





 दुःखत्रयाभिधाताजिज्ञासा तदप(१)घातके हेतौ ।।
 दृष्ट साऽपार्था चेन्नैकान्तात्यन्ततोऽभावात् ।। १ ।।
 दृष्टवदानुश्रवकः स ह्यविशुद्धि(२)क्षयातिशययुक्तः ।
 तद्विपतिः श्रेयान् व्यकाव्यक्तज्ञविज्ञानात् ॥ २॥
 मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
 षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३॥
 दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।।
 त्रिविधं प्रमाणामष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४॥
 प्रतिविपयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् ।।
 तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥ ५ ॥
 सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् ।
 तस्मादपि चाऽसिद्धं परोक्षमासागमात्सिद्धम(३) ॥ ६ ॥
 अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् ।
 सौक्ष्माह्यवधानादभिभवात्समानाभिहाराच्च ॥ ७ ॥
 सक्ष्म्यात्तदनुपलब्धिनsभावात् कार्यतस्तदुपलब्धेः(४) ।
 महदादि तश्च कार्यं प्रकृतिसरूपं विरूपं (५)च ॥ ८ ॥
 असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।।
 शक्तस्य शक्यकरणात् कारणभावाञ्च सत्कार्यम् ॥ ९॥
 हेतुमदानित्यमव्यापि सक्रियमलेकमाश्रितं लिङ्गम् ।।
 सावयचं परतन्त्रं तं विपरीतमव्यक्तम् ॥ १० ॥
 त्रिगुणमविवेक विषयः सामान्थमचेतनं प्रसवधर्मिं ।
 व्यक्त तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११ ॥



 (१)तदभिघातके-इति माठरवृत्तिकृतां संमतःपाठः ।
 (२)अविशुद्धः-इति माठ० वृ० पाठः ।
 (३)साध्यम-इति माठ० वृ० पाठः।।
 (४)तदुपलब्धिः -इति माठ० पाठः ।।
 (५)प्रकृतिविरूप सरूपं च-इति माठ० पा० ।