पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
left
१०१
सङ्क्षेपतः पदार्थनिरूपणम् ।



रेण्वदितेजः सत्वादसम्भववारणाय-तादृशेति । प्रकृष्टपहत्वोद्भूत- रूपवत्तेज इत्यर्थः ।

 एवं पक्षमसर्त्वयनसम्वत्सरादिकं बोध्यम् । वर्तमानत्वं च अनुत्पन्नध्वंसस्वे सनि विनष्टप्रागभावत्वम् ।

 न्यायकणिकायां मिश्रास्तु-गरिभाविकं वर्तमानत्वम् , ‘विद्यते व्योम’ इत्यादौ तदभावात् , न चऽत्र भाक्तः प्रयोगःविशषाभावा- दित्याहुः । भविष्यत्वं च–प्रागभावप्रतियोगित्वम् । अतीतत्वं च-उपमध्वंसप्रतियोगित्वम्, इत्यादिरीत्योपधिनैव सर्वत्र निर्वाह- संभवान्न कालसिद्धिः ।

 यत्तु-उदयनाचार्याः “'नचैष व्यवह्र उपाधिभेदमात्रेण शक्यते । यस् भारते वर्षे मध्यान्हस्त्दोत्तरेषु कुरुषु अर्द्धरात्र- मित्यादौ सम्बन्धाभावात्” इत्याहुः

 एतच्च व्याख्यातं वर्द्धमानोपाध्यायैः —“यदेह मध्यान्हस्तादो- त्तरेषु कुरुषु अर्धरात्रमिति । वत्तेमानयोः सामानाधिकरण्यमसति काले नोपपन्नमिति तद्धटककालो मन्तव्य इत्यर्थः’ इति,

 तन , प्रधानननैव नेिर्वाहात् । यत्तच्छब्दार्थतयोभया- धिकरणत्वेन प्रतीयमानस्योपाध्यतिरिक्तस्यऽखण्डकालस्याऽङ्गी- कारे ‘इदानीं घटो न तदानीम्’ इत्यादिप्रतीतिवत् ‘यदेह मध्यान्हस्तदा तत्र न मध्यान्ह इत्यादिव्यवहारानुपपत्तेः । 'यदा धूमस्तदा वन्हिः' ‘यदा यत्र धूपस्तदा तत्र वन्हिः’ 'यदऽयं काश्यां तदा स प्रयागे' इत्यादि प्रसिद्ध स्थलदित्यागे बीजाभावाञ्च उषाधिरूपस्याऽचच्छेदकस्याऽङ्गीकारे प्रतिज्ञाविरो धात् । यदि च ‘इदानीमयं काश्यां न प्रयागे’ इत्यादिप्रती- त्या कालवृत्तौ । देशस्यावछेदकवाङ्गीकारात् अशोकवनिका- न्यायेन चऽस्मत्पक्षोक्तदोषद्वयं न सम्भवतीति विभाव्यते ; तद- पि महत्वोद्भूतरूपतद भाववत्किरणसम्बन्धाभ्यां क्रमेण मध्यान्हा-