पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
सटीक सख्यतत्वकौमुद्याम् ।
 

यत्तु दिक्कालयोः प्रसाधनाय प्रमाणमुक्तं न्यायलीलावतीकृद्भि- र्वल्लभाचार्यैः—परममहत्परिमाणसामान्यं विशेषगुणशून्यद्रव्याधिक- रणकानेकव्यक्तिवृत्ति, परिमणतारतम्यविश्रान्तिविषयजातित्वात् , अणुत्वत्वत् [१]। तथा विवादध्यासितान्यव्यापकद्रव्याणि युगप- द्विशेषगुणशून्यानेकद्रव्यसंसर्गीणि, द्रव्यस्वादात्मवदिति[२] । आद्यं च दिगादेः सिद्धावेव ! प्रत्येकं तदनेकत्वसधकम् ।

 तदुक्त वर्द्धमानप्रकाशकृद्भिः शङ्करभगीरथोपाध्यायैः--दिगादेः सिद्धावेव तदनेकत्वसिद्ध्यर्थमस्याऽनुमानस्याऽवतार इति । अन्यथै कैकदिक्कालाद्यनेकव्यक्तिसिद्ध्याऽर्थान्तरम् । [३]दिगाद्यसिद्धिनि बन्धनसाध्याप्रसिद्धिव । न च तथाप्यन्यतरानेकत्वसिध्याऽर्था- न्तरम् । स्वाश्रयीभूत-विशेषगुणासमानाधिकरण-दिगवृत्ति-- परिमाण-भिन्न–विशेषगुणासमानाधिकरण—कालावृत्ति-(अ- नेक-)परिमाण--वृत्तित्वस्य सध्यत्वात् । एतेन ‘तादृशमहत्त्वादे- कद्रव्यसिद्ध्याऽर्थान्तरम्' इति परास्तमिति[४]



 ( १ ) अत्र मनोऽवच्छेदेन व्याप्तिग्रहः।
 ( २ )आमनि तादृशेन द्रव्येण मनोरूपेण संसर्गसर्वा दृष्टान्तसिद्धिरिति द्रष्टव्यम् ।
  (३) स्वश्रयीभूतेत्यादिवक्ष्यमाणनिरुक्तिं दिगदिघटितमभिप्रेत्योक्तं दिगादीत्यादि ।
 (४ ) स्वाश्रयीभूतात् दिगवृत्तेर्विशेषगुणसमानधिकरणात् परिमाणाद्भिन्नं यत्
  विशेषगुणसमानाधिकरणं कालवृत्ति परिप्राणं तद्दृत्तित्वस्येत्यर्थः ।
  अत्र च दिगवृत्तितादृशकालपरिमाणभिन्ने अर्थात्-दिग्वृत्तौ
  कालावृत्तित्वसिद्ध्या दिक्कालयोर्भेदः सिद्ध इति भावः । स्वाश्रयीभूत-
  विशेषगुणसमानाधिकरणतन्मनोऽणुत्वभिन्नविशेषगुणसम।नाधिकर-
  णकालावृत्येतन्मनोऽणुत्ववृत्तित्वस्य दृष्टान्ते सत्स्वाद्ध्याप्तिग्रहःसामा
  न्यभेदस्याऽनिविष्टत्वात् । अन्यथा कालसिद्धेः प्रक् ‘दिगेव कालः’इत्यपि-
  वक्तुं शक्यतया तयोरभेदेनाऽर्थान्तरं स्यात् । एतदेवोक्तमेते
.   नेत्यादिना । अत्र स्वत्वं पक्षदृष्टान्तसधारणम् ।