पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
सटीकसाइख्यतत्वकौमुद्याम् ।



सामानाधिकरण्यम् । एतेन मानमनोहरप्रयोगोऽप्यपास्तः--वि- वदाध्यासितं कार्यं विशेषगुणरहितद्रव्याभ्यां जन्यते, कार्यत्वात्, अन्तःकरणद्वयसंयोगवदिति, तत्राऽपि दृष्टान्तस्य साध्यविकलत्वात् । ‘विवादाध्यासितं विशेषगुणरहितद्रव्यैर्जन्यते' इति बहुवचनप्रक्षेपे- णाऽपि प्रयोगसम्भवात् ,अतिरिक्तद्रव्यसाधकतया समानयोगक्षेम- वाञ्च । न च दृष्टान्तासिद्धिः, अन्तःकरणाधिकरणापेक्षबुद्धिजन्य- बहुत्वस्यैव दृष्टान्तत्वोपपत्तेः । विवादध्यासितं विशेषगुणरहित- द्रव्याभ्यां न जन्यते,अन्तःकरणाकार्यत्व ,आकाशवदितेि सत्प्रति- पक्षितवाञ्च । न च कायंत्वमुपाधिः, वेदान्तिवादिभिराकाशस्याऽपि कार्यताङ्गीकारादित्याहुः ।

 यत्तु लीलावतीचरमानुमानदोषनिरासायोक्तं वर्द्धमानोपाध्यायैः- तन्वनाश्रतानि कार्य्याणि तन्त्वाश्रितकाअर्याधिकरणजन्यानि,कार्य्य- त्वात् , सम्प्रतिपन्नव[१]दित्यत्र तात्पर्यमिति । अत्र पक्षभिन्नस्यैव दृष्टान्ततालाभाय पक्षतावच्छेदकैक्ये चांशतः सिद्धसाधनवारणाय पक्षविशेषणम् । कार्याधिकरणमत्माऽपीति तज्जन्यत्ववारणाय तन्त्वाश्रितत्वं कार्यविशेषणम् । अव्यासज्यवृत्तित्वमपि कार्यविशेष- णम्, अतो न संयोगमादयोक्तदोषतादवस्थ्यम् । दिगन्यत्वमप्याधि- करणविशेषणम्, अतो न सिद्धसाधनम् । न च तन्तुनाऽर्थान्तरम्, बधादेव तदसम्भवादिति,

 तन्न। एतस्याऽनुमानान्तरत्वात् ,प्रत्यक्षबधाञ्चतन्त्ववृत्तित्वेन सत्प्रतिपक्षितत्वात् , तन्तुसमवेतत्वस्योपाधित्वाञ्च । न च कार्य- त्वस्यैव तत्प्रयोजकत्वेन व्याप्यतया न साध्यव्यापकत्वमिति वाच्यम्[२] । कार्यत्वस्यैव तव्यभिचारित्वात्[३] । एवमन्यान्य




  १ पटवदित्यर्थः ।

  २: यदि कार्यत्वस्यैव व्याप्यत्वम्, तद कैव कथा कार्यत्वव्याप्यतन्तुसमवेतत्वस्येति भावः ।

  ३ घटादौ व्यभिचारः प्रत्यक्षेणैव ।