पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।



प्रत्यक्षम् । तस्य परैः कल्पितवान् । नाऽपि 'इह तन्तुषु पट:' इति प्रत्यक्षम् । तस्यऽऽधाराधेयविशेषणविशेष्यभावादिविषयकत्वात् । अन्यथा 'भूतले घटः'इत्यादेरपि तत्वापातात्[१] । नापि ‘शुक्लः पट: इति प्रत्यक्षम् तत्र मानम् । परमते सामानाधिकरण्यप्रती- तेरभेदविषयकत्वस्य ‘घटो द्रव्यम्’ इत्यादों क्लृप्तत्वात् । न च ‘शुक्ल' इत्यस्य शुक्लवद्विषयकतया सम्बन्धविषयकत्वे समवायवि-. षयकत्वमेवेति वाच्यम् । ‘घटंवद्भूतलम्' इतिज्ञानतुल्यतया संयोग- विषयकत्वव्यतिरेकानिश्चयात् । ‘घटाभाववद्भूतलम्' इतिज्ञानवत्स्व- रूपसम्बन्धविषयकत्वोपपत्तेश्च ।

 चित्सुखचार्यास्तु--'इह तन्तुषु पटः’ इतिप्रस्थभं न तत्र मानम् । विकल्पासहत्वात् । समवायो ह्याSSधारबुद्धिं कुर्यात् , आधेयबुद्धेिं वा उभयबुद्धिं वा, सर्वथाऽपि नोपपद्यते । तन्तुपटयो- रुभयोरप्याधारबुद्धेः , आधयबुद्धेः उभयबुद्धेश्चाऽविशेषेण प्र- सङ्गात्[२] ।‘जातिजातिमन्तौ मिथः सम्बद्ध'इत्यस्येवाSनुभः वान्तरमिति चेत् , मैवम् । विकल्पासहत्वात् । तथा हि-अ- स्मिन्ननुभवे समवायस्तदीयत्वेन अन्पदीयवेन वा, स्वरूपेण वा[३] प्रथते इति वक्तव्यम् । नाऽऽद्यः । तदीयत्वस्य[४] सम्बन्धान्तरायत्त- त्वेनाऽनवस्थापातात् । न हि द्वितीयः। अन्यत्रैव सम्बन्धबोधप्रसङ्गात् । न तृतीयः । केचिदपि सम्बन्धप्रत्ययानुपपत्तेः । असत्येव सम्बन्धे[५] तदीयवमनुभवसिद्धमिति चेन्न । जात्यादेरप्यसत्येव सम्बन्धे त---



  १ इत्यादिप्रतीतेरपि समवायविषयकत्वापातात् ।

  २ समवायस्य संसर्गतया द्विनिष्ठत्वेन ‘इह पटे समवयेन त-
  न्तवः इत्यपि धीः ’इह तन्तुषु एट” इति धीरिव स्यादिति भावः ।

  ३ जातिजातिमत्सम्बन्धित्वेन, तदन्यसम्बन्धित्वेन वा, स्वतन्त्रतया वेति भावः ।

  ४ तन्निरूपितसम्बन्धवस्वरूपतयेति शेषः ।

  ५ जातिजातिमद्भ्यामित्यर्थः।