पारो ज्ञानम् । उपात्तवेषयाणामन्द्रियाणां वृत्तौ सत्यां बुधैस्तमोऽभिभवेसति यः सत्त्वसमुद्रेकः सोऽध्यवसायः
किन्तु तदकारस्यैवेन्द्रियजन्यत्वाभ्युपगमात् । एतेन ‘प्रतिविषयः- नियतविषयोऽध्यवसीयते-श्रीयतेऽनेनेति प्रतिविषयाध्यव- सायमिन्द्रियम्’ इति परास्तम् ।बुद्धिव्यापारः-बुद्धिपरिणामः । [१]नन्वेवमयोग्यविषयसन्निकृष्टेन्द्रियवृत्तिबुद्धिवृत्तिरूपं ज्ञानमपि दृष्ट- प्रमाणं स्यादत आह । उपात्तेति । उपात्तविषयाणां-स्वस्व योग्यविषयाणाम् । तथा च योग्य विषये एव तत्तदिन्द्रियसन्निकर्षो न तु परमतवत् [२]प्रत्यक्षायोग्येऽपीत्यर्थः । वृत्तौ सत्याम्-परिणामरू पसन्निकर्षे सति । बुद्धस्तमोऽभिभवे सतीति । बुद्धेः-त्रिगुणमकस्य बुद्धिसत्वस्य । [३]न च तमसः प्रतिबन्धकत्वे मानाभाव इति वाच्यम् । सर्वदा सत्तवकार्यापत्त्या तत्कल्पनात् । तदभिभवश्च- क्वचिदिन्द्रियसन्निकर्षेण, क्वचिच्च योगिनां धर्मेण, अञ्जन- संयोगे नयनमालिन्यवत् । तथा च रजस्तमसोर्गुणत्वेन सहका- रित्वे सतीति तात्पर्यार्थः[४] । अत एव वक्ष्यति-अन्योन्या भिभवेत्यादि ( कारिका १२) । सत्त्वसमुद्रेकः-परिणाम विशेषः । तस्य सञ्ज्ञान्तरमाह । सोऽध्यवसाय इत्यादिना ।
१ योग्यघटादिप्रत्यक्षकालेऽथोग्यपरमाण्वादिनपि सन्निकर्षेण
घटादिसन्निकृष्टेन्द्रियनिष्टबुद्धिवृत्तेः परमाण्वचच्छेदेनापि प्रत्यक्षप्रमाणत्वं
स्यात्, इति-इन्द्रियाणां संयोगादि रूपसन्निकर्षमात्रस्य प्रत्यक्षकारण
त्वं मत्वा शङ्कते-नन्वेवमित्यादिना ।
२ नैय्यायिकमतवत् । प्रत्यक्षे इन्द्रियपरिणामरूप-सन्निकर्षः
कारणं, न तु सयांगदिरित्यर्थः ।
३ ‘बुद्धस्तमोभिभवे सति यः सर्वसमुद्रेकः’ इत्युक्त्या तमसः
सत्वसमुद्रेकस्य प्रतिबन्धकत्वं सुचितम्, अतस्तत्र मानभावमाशङ्कय
निषेधति--न चेत्यादिना ।
४ सत्वरजस्तमसां परस्परं व्याप्यतया तदन्यतमस्याऽपि वि-
भागासम्भवेन सवप्रधानकार्यं रजस्तमसोरप्रधानत्वमात्रमित्यशयः ।