पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
प्रत्यक्षनिरूपणम् ।'

तत्वेन तव तत्तस्सम्बन्धावच्छिन्नत्वनिवेशेऽपि पुनः स्वातन्त्र्येण व्याः परवत्त्वनिवेशव्पारवत्वस्य च प्रकारतया भाने तत्राSषे सम्वन्ध- निव्एशावश्यकत्वेनाऽतिगौरवाञ्च । इश्वरज्ञानस्याऽदृष्टादिव्यापर- वचेन कायेत्वावच्छन्नं प्रतेि कारणत्वेन च प्रयक्षानुमेत्यादावपि करणत्वापतत्तेश्च । न चेष्टापत्तिः। एकस्यैव चतुष्टयकरणतया प्रमाण चतुष्टयत्वेन व्यवहारानुपपत्तेः । [१]कार्यत्वानवच्छिन्नजन्यता निरूपितत्वरूपासाधारणत्वनिवेशेऽपि आमनो आत्ममनःसंयो- गव्यापरवत्त्वेन जन्यज्ञानत्वावचंच्छिन्नकारणत्वेन ज्ञानकरणत्वापत्या-

न चान्यथासिद्धिशत्यत्वे सति फला(कार्या)वयवहितपूर्ववृत्तित्वरूप- कारणलक्षणेऽन्यथासिद्ध२न्यत्वमात्रनवेशेन रासभादेर्व्यावृत्तिः स्यात्, इति वाच्यम् । कारणत्वेनऽभिमतं यत्, तद्भिन्नत्वे सति फलव्यवहित पूर्ववृत्तित्वस्याऽन्यथासिद्धिपदार्थत्वात् । रासभादेस्तु तद्भिन्नत्वेऽपि फलाव्यवहितपूर्वेवृत्तित्वाभावेनाऽन्यथासिद्धिशून्यस्यात् । न चा- ऽन्यथसिद्धिलक्षणे सस्यन्तमेवऽस्तु, अलं विशेष्यदलेनेति वाच्यम् । कारणत्वशङ्कागन्धशून्यस्याप्यन्यथासिद्धत्वापत्तेः । तथा च कारण- लक्षणे न फलव्यवहितपूर्ववृत्तित्वमित्यस्य फलव्यापारान्यतराव्यव हितपूर्ववृत्तित्वमर्थः । यागे तु स्वजन्यापूर्वरूप-व्यापारवत्वसम्बन्धेन स्वर्गारूप-फलाव्यवहितपूर्ववृत्तित्वस्य सत्वेनैव कारणलक्षणस्य नाऽव्या- प्तिः, इति चेन्मैवम् । विकल्पासहत्वात् । तथा हि-तथापि करणलक्ष- णे स व्यापारः प्रकारविधया निवेश्यते, संसर्गविधया वेत्यत्राद्यन्त्य- योर्यथाक्रममुत्तरमाह-कारणत्वस्येत्यादिना करणत्वापत्तेश्चेत्यन्तेन । अत्रव्यापारवत्वस्य संसर्गविधया निवेशे तु, अनवस्थाभिया संसर्गे संसर्गान्तरानभ्युपगमेनाऽतिगौरवं नास्ति, तथाऽपि करणलक्षणे व्या- पारवत्वसंसर्गनिवेशेनापि (नैय्यायिकमते) गौरवं वर्तते एव, तथाऽपि तदभ्युपगम्य हेत्वन्तरमाह-ईश्वरेति, ईत बोध्यम् ।


    १ ननु करणलक्षणे कारणत्वांशेऽसाधारणत्वनिवेशेनेश्वरज्ञा-
-    नादेः कार्यमात्रं प्रतिसाधारणकारणत्वेन न तद्व्यवहरनुपपत्ति
   रित्यत आह-कार्यत्वानवच्छिन्नेति । साधारणकारणवं च-कायेत्वाव-
   च्छिन्नकार्यतानिरूपित-कारणतशालित्वम् ।


१७