पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
प्रत्यक्षनिरूपणम् ।



चेतनोऽनुगृह्यते । चितिच्छायापत्त्या चऽचेतनाऽपि बुद्धि- स्तदध्यवसायश्च चेतन इव भवतीति । तथा च वक्ष्यति-

ति’इत्यत्रऽन्वयः। तत्प्रतिबिम्बितः—बुद्धिप्रतिबिम्बितः । तच्छायापत्त्या–बुद्ध्यानुकारतया, तत्प्रतिविम्बाभिमानेन वा । ज्ञानेति । दर्पणान्तर्गतमुखप्रतिबिम्बाविवेकेन दर्पणान्तर्गतमालि न्याद्यभिमानवत् बुयन्तर्गतप्रतिबिम्बाविवेकेन तदन्तर्गतज्ञानाद्य- भिमान इत्यर्थः । [१]यद्वा (चेतनगत-) बुद्धितद्वृत्तिप्रतिबिम्व एव फलं (चेतन गत-)बुद्धिप्रतिविम्वरूपेण, स्वात्मगतं बुद्धितद्वृत्तिप्रति- बिम्बं च प्रकाशयति, अतस्तदाश्रयत्वेन प्रमाता, प्रकाशकत्वेन च सक्षी, इति व्यवह्रियते इति । नन्वचेतनबुद्धिवृत्तेः कथं विषयप्रकाश- कत्वमित्याशङ्क्याह । चितीति । तथा च चैतन्यप्रतिबिम्बाश्रयत- या(बुद्धितदध्यवसाययोः) द्वयोश्चैतैन्यवदवभास इत्यर्थः ।।



     १ ननु कृत्याश्रयत्वं कर्तृस्वमितिवत् प्रमातृवं खलु प्रमाश्रयत्व
  मिति लोकतः सिद्धम् । पूर्वोक्त्या तु बुद्धेरेव प्रमाश्रयत्वमायातम् ।
  बुद्धन्तर्गतचित्प्रतिबिम्बाविवेकस्यैव बुध्न्तर्गतज्ञानादेश्चिन्निष्ठत्वेनाभि
  मानकारणत्वोक्तत्वात् ताद्दशाभिमानवेशषस्यैव च प्रमात्वेनोक्तत्वे
  नाऽथीकारेण परेणतया बुद्धिवृत्त्या स्वाकारतामापद्यमानस्य
  बुद्धिदर्पणे प्रतिबिम्बतस्येव चतनस्य प्रमात्वनाभिमतत्वात्
,   प्रतिबिम्बितश्चेतनस्य तु बुद्धिधर्मत्वादित्यतअह--यद्वेति ।
  अस्मिन् पक्षे ‘चतनशक्तेरनुग्रहः’ इत्यस्य स्वनिष्ठतया बुद्धिप्रतिबि-
  म्बावसरप्रदानेनाऽनुकम्पेत्यर्थः । तथा ‘तप्रतिबिम्बितः' इत्यस्य च
  तैन (ज्ञानसुखादिना) प्रतिबिम्बित इत्यर्थः। ‘ज्ञानसुखदिन'इति पदस्य
  च वेतन इत्यनेनान्वयः । अत्र फलस्य जन्यताप्रदर्शनाय-बुद्धिप्रति-
  बिम्बरूपेणेत्युक्तम । तेन चितो नित्यत्वेऽपि न क्षतिः । इदं त्ववधेयम्-
  पक्षद्वयेपि ज्ञानाकार उक्तः (पृ० १९ । १२० पं० २८ । २३) । तत्र सिद्धा-
  न्तिपक्षे ”अयं घट” इत्यस्यैव फलत्वेन परमार्थतोपि प्रमात्वमेव, ‘घटज्ञा-
  नवन्' इत्यनुव्यवसायस्य तु भ्रमत्वम् । लकेत्तरीत्या प्रमात्वमेवेति ।