पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
सटकसाङ्ख्यतत्त्वत्कौमुद्याम् ।



न चैवमपि “वह्निमान्धूमात्' इत्यादौ तादृशधर्ममहानसत्वाद्यवच्छिन्न- साध्यव्यापके व्यञ्जनवत्त्वादवतिव्याप्तिरिति वाच्यम् । यद्धर्माव- च्छिनसाध्यव्यापकत्वं, तद्धर्मा वांछन्नसाधनाव्यापकत्वस्य विव क्षित्वात् । साध्यविरुद्धजलवादेरुपधित्ववारणाय सत्यन्तनिवेशः ।

 दीधितिकृतस्तु-साध्यासमानाधिकरणधर्मस्य, साध्यव्याप काभावस्य[१] वाऽधिकरणं यत् साधनाधिकरणं, तनिष्ठ- प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिव्यधिकरणात्यन्ताभावप्रति- योगितावच्छेदकसाध्यममनाधिकरणवृत्तिधर्मवत्वमुपाधित्वम् । भ- वति च धूपासमानाधिकरणायोगोलकत्वादेः, श्यामत्वा समानाधि- करणगौरमित्रातनयत्वादेः प्र्रत्यक्षत्वासमानाधिकरणपरमाणुत्वस्य चाधिकरणं स धनाधिकरणम्-अयगोलकगौरमित्रातनयपरमा- ण्वादो, तन्निष्ठस्य प्रतियोगितावच्छेदकविशिष्टप्रतियोगिव्यधिकरणा- र्द्रेन्धनशाकपाकजत्वोद्भूतरूपादेरभावस्य प्रतियोगितावच्छेदकं सा- ध्यसमानधिकरणवृत्ति यत् अर्द्रेन्धनत्वादिकं, तदादाय सर्वत्र लक्षण- समन्वयः। सद्धेतौ व्यञ्जनवत्त्वादावतिप्रसङ्गवारणाय -साध्यासमा- नाधिकरणधर्माधिकरणेति साधनाधिकरणविशेषणम्। न च तद्वारणा- य-साध्यानधिकरणसाधनाधिकरणमित्येव निवेदयमिति वाच्यम् ।

भावोऽज्ञानेन भज्यते, अपि । तु साध्यसाधकतया प्रयुक्तहेतुनिष्ठा- नुमेितिप्रमण्याभावसम्पादकसोपाधिकत्वज्ञानस्योपाधिज्ञानाधीनतया उपाधेश्च साध्यव्यापकाद्यात्मकतयेपाधज्ञानस्य साध्यव्यापकत्वा- दिज्ञानाधीनत्वेन च ‘पर्वतो वह्निमान् धूमात्’ इत्यादौ पक्षेतरत्वस्य च साध्वव्यापकत्वभावज्ञानप्रदर्शनद्वारा परस्य-पक्षेतरत्वे उपधित्व- शङ्का वादिन निवर्त्यत इति प्रतिपाद्यत इति । इत्थञ्च बाधो- न्नीत-पक्षव्यावर्तकयद्धर्भावच्छिन्नप्रकृतसाध्यव्यापकत्वं, तद्धर्माधच्छि- न्नसाधनाव्यापकत्वमुपधत्वमिति निष्कर्षः । यत्तत्पदस्य फलमत्रैव ग्रन्थकृतैव वक्ष्यते ।



  १ साध्यस्य व्यापकः, तस्याऽभावस्तस्येत्यर्थः । प्रकृते आर्द्र-
  न्धनाद्यभावस्तादृशोऽभावः ।