पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
सटीकसाङ्ख्यतत्वकौमुध्याम् ।




 आद्याऽवाच्यविवक्षायां पञ्चमे भङ्ग इष्यते।
 अन्यवाच्यविवक्षायां षष्ठभङ्गममुद्भवः ॥
 समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यते ।

इति ।

 अस्यार्थः-यद सत्कार्यवादिन साङ्ख्यमतानुयायिना सह विवादस्तद ’स्यादस्ति' इतिप्रयोगः[१] स्यात् ।-यद सर्वदा स- न्विवक्षया ‘घटः सर्वदा सन् अतीतादि त्रितया वस्थावत्त्वादात्मा- दिवत्’ इत्युक्ते ‘घटः सर्वदा सन्न भवति सात्त्वाद्विद्युल्लतादि वत्’। यदि वस्तु सर्वदा स्यात्तर्हि सर्वदेशेपि स्यादन्यथा परिच्छिन्नत्वेनाऽसत्त्वापत्त्या सर्वदापि न स्यात् । तथा च यदि वस्तु एकान्ततोस्त्येव ततः सर्वथा सर्वेद सर्वत्र सर्वान्प्रत्यस्स्थेवे- ति न 'तदेप्साजिहासाभ्यां क्वचित्कदाचित्कश्चित्प्रवर्त्त्ते निवर्तेत वा । प्राप्तस्याऽपापणीयत्वात् हेयहाननुपपत्तेश्च-अनेकान्तपक्षे क- थञ्चित्कदचित्कस्यचित्केनचित्सत्त्वे- हानोपादाने प्रेक्षावतां कल्पते ।

 एतेन ‘अनुकूलतर्काभावात्करटदन्तसङ्ख्यावत्प्रयोजनाबावाञ्च ऽप्रयोजकमिदमनुमानम्’ इति परास्तम् । तथा चास्तिस्वमास्तिव- विरुद्धधर्माध्यासासर्वं वस्तु नानात्मकं भव्रतीति तात्पर्यार्थः । 'वि- मतमनेकात्मकं वस्तुत्वान्नृसिंहवत्' इति सामान्यतो बोध्यम् । एकान्तभङ्गे प्रयोजनमपि तेनौवोक्तम्--


 स्याद्वदः सर्वथैकान्तत्यागात्किंवृत्तचिद्विधेः।
 सप्तेभङ्गनयापेक्षो हेयादेयविशेषकृत् ॥

इति ।

 अस्यार्थः--स्याद्वादे द्वेयादेयविशेषकृदित्यन्वयः । किंश- ब्दात्- ’किमञ्च' (पृ० अ० ५ पा० ३ सू० २५) इति सूत्रे- ण मुप्रत्ययो भवति । ततः ‘कथम्इति रूपं लभ्यते । तदुपरि ‘चित्’ इत्ययं निपातोविधीयते । ‘ततः कथम् ' इति रूपं लभ्यते। तदुपरि "चित्" इत्ययं निपातो विधीयते । "ततः कथञ्चित्" इति स्यात्। तस्मार्तिक्व्रुत्तचिद्विधेर्हेतोः कथञ्चिदस्ति कथञ्चिन्नास्स्तित्यादिरूपात्स-



  १ प्रथमभङ्गप्रवृत्तिरित्यर्थः