पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
सटीकसाङ्ख्यतत्वकौमुध्याम्



तद्भङ्गवद्द्रष्टव्यम् । एवमग्रेपि ।


 बौद्धेन नास्तित्वा निर्वा च्यत्वनियमोद्भावने षष्ठभङ्गावतारः ।
 वैशेषिकेन सदसद निर्वाच्यत्व नियमोद्भावने सप्तमभङ्गमप्रवृत्तिः॥

 ननु तदीयकारिकानुरोधेन (पृ० १६५ पं० २५) स्यादस्ति १ स्यान्नास्ति २ स्यादस्ति नास्ति च ३ स्यादवक्तव्यः ४ स्यादस्ति चावक्तव्यश्च ५ स्थानास्ति चावक्तव्यश्च ६ स्यादस्ति नास्ति चऽवक्तर्यश्च ७ इति क्रमोऽपेक्षितः । स च भाष्यकारैः-स्याद- स्ति, स्यान्नास्ति, स्यादवक्तव्यः, स्यादस्ति नास्ति चे, स्यादस्ति चावक्तव्यश्च, स्यानस्ति चावक्तव्यश्च, स्यादस्ति नास्तिचावक्तव्यश्चेति भाष्ये ‘स्यादत नास्ति च'इत्यस्माद- धस्तात्-स्यादवक्तव्यः इत्यकथनेन त्यक्त: । तत्त्यागे बीजं न पश्यामः । न च लेखकप्रमादाद्व्यत्यास इति वाच्यम् । बहुषु पुस्तकेषु तथैव दर्शनात् । भामतीनिबन्धेष्वपि तथैव दर्शनात् । कल्पतरुकृद्भिरपि 'स्यादस्ति नास्ति च' इत्येतत्-‘अव क्तव्यः' इस्यस्याधस्तात्सम्बन्धनीयमित्युक्तया तथैव पाठक्रमस्याङ्गी कृतत्वाच्च । न च कारिकास्वेव लेखकप्रमादः कल्पनीय इति वाच्यम् । उत्तरोत्तराणां पूर्वपूर्वसापेक्षत्वेन तादृशक्रमस्यैवा- काङ्कितत्वात् । इति चेन्न । तन्मते यदि क्रमनियमः तर्हि तत्रैव व्यभिचारो यदि नास्ति तर्हिसन्नसख्यंदिवत्क्रमोपि न सिद्ध्येदिति तन्मतखण्डनयुक्तिसूचनस्यैव बीजस्यात् । न चैवमपि स्थादस्तिंचावक्त’ व्यश्चेत्यादिभाष्ये मध्यस्थचकाराणां वैयर्थमिति वाच्यम् । पूर्ववादिनां पक्षेषु पूर्वपक्षोत्थानसम्भवेन पूर्ववादिनां पुनरुत्था- न सूत्रकत्वेन सार्थक्यत् ।

 भाष्यविरोधपरिहारार्थं कारिकास्थं ‘स्यादस्ति नांस्तिच’ इति तृतीयस्थलस्थं चतुर्थस्थले सम्बन्धनीयमिति कल्पतंर्वाशय इतेि परिमलकारादयः । तत्र । कारिकाक्र मस्यैवाकाङ्क्षितत्वादिति ।