पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
शब्दनिरूपणम्



'तु’ शब्देनानुमानाद्व्यवच्छिनत्ति । वाक्यार्थो हि प्र- मेयो न तु तद्धर्मः; येन वाक्यं तत्र लिङ्गं भवेत् । न च वाक्यं वक्यार्थं बोधयत् सम्बन्धग्रहणमपेक्षते,




 सूत्रं तु (ब्र० अ० २ पा० २ सू० ३३) एकस्मिन्-धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मादिसमावेशासम्भवातन्मतं न चारु इत्येवं व्याख्येयम् ।

 यद् एकस्मिन्–नयाभिमतसप्तपदर्थमध्ये स्वर्गापवर्गादौ, अ- सम्भाव्त्–पक्षे भावः, पक्षे अभावः पक्षे नियता, पक्षेऽनियतेत्यन- वधारणायां प्रदृत्त्यसम्भवात् । प्रमणकत्वसम्भवाद्वेत्येवं व्याख्येयम् ।

 शब्दमनुमानेऽर्भावयन्तं वैशेषिकं प्रत्याह । तुशब्देनेति । तत्र वाक्य यलिङ्गकानुमानसम्भवरूपं हेतुमाह । वाक्यार्थो हीति । तथा च हि-- यतो वाक्यार्थः प्रमेयोऽतस्तद्धर्मो-वाक्यस्य धर्मो न भवति । ‘यत् यत्प्रमेयं तत् तद्धर्मो न भवति’ इति नियमस्य रूपादौ दर्शनात् । ‘अयं वृक्षः शिंशपाषा' स्यादिवत् ‘इदं वाक्यार्थवद्वाक्यात् ’ इत्येवं रीत्या वाक्यार्थे वाक्यं लिङ्ग न भवतीत्पर्थः ।

 कचित्-वाक्यार्थो हि प्रमेयो न तु तद्धर्मो वाक्यं येन तत्र लिङ्गं भवेत्' इति पाठः । स च 'यतो वाक्यर्थः प्रमेयोऽतस्तद्धर्मो वाक्यार्थस्य धर्मो वाक्यं न भवति’ इत्येवं व्याख्येयः । तथाऽसति "वाक्यार्थो हि प्रनेयः" इत्यस्य वाक्यस्य तद्धर्मत्वाभावे हेतुस्वासम्भवेन वैयर्थ्यापत्तिः । पदसम्दरूपवा- क्यस्य श्रावणत्वेन प्रमेयावृत्तितया तद्धर्मस्वाभावसाधनेपि पूर्वोक्त- वैयर्थं तदवस्थमेवेति ।

 ननु वाक्यस्य प्रमाणत्वेन वाक्यार्थधर्मित्वाभावेपि यथा धूमस्य संयोगेन वन्ह्यव्यभिचारितया वह्निलिङ्गत्वं तथा वाक्यस्य शत्यादिसम्बन्धेन शक्यार्थलिङ्गत्वं स्यात् इत्याशङ्क्याह । न चेतेि । तथा च शक्त्यादिसम्पन्धग्रहणं विनापि जायमाना वाक्यार्थावगतिर्न- २२