पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


मवगमयति । यदि पुनरसतः सज्जायते असन्निरुपाख्थं कारणं सुखादिरूपशब्दद्यात्मकं कथं स्पात सदसतो- स्तादात्म्यानुपपत्तेः ? अथैकस्य सतो विवर्तः शब्दादि- प्रपञ्चः तथाऽपि सतः सज्जायत इति न स्यात् । न चा- स्याद्वयस्य प्रपञ्चात्त्मकत्वम् , अपि त्वप्रपञ्चस्य प्रपञ्चत्त्म कतया प्रतीतिर्भ्रम एव । येषमपि कणभक्षाक्षचरण- दीनां सत एव कारणादसतो’जन्म तेषमपि सदसतो. रकत्वानुपपतेर्ने कार्यात्मकं कारणमिति न तन्मते प्र- धानसिद्धिः ।

 अतः प्रधानसिद्ध्यर्थं प्रथमं तावत्सत्कार्यं प्रतिजानीते।


 असदकरणादुपानग्रहणात् सर्वसम्भवाभावात् ।
 शक्तस्य शक्यकरणात् कारणभवाच्च सत् कार्यंम्॥९॥


 ‘असदकरणात्’ इति । "सत् कार्यम्”-कारण- व्यापारात् प्रागपीति शेषः । तथा च न सिद्धसाधनं नै- य्ययिकतनयैरुद्भावनीयम् । यद्यपि बीजमृत्पिण्डादिप्र- घ्वंसानन्तरमङ्कुरघटाद्युत्पत्तिरुपलभ्यते, तथाऽपि न




सुखादिरूपस्वे सति प्रकृतित्वं प्रधानस्वम् । कणभक्षःकणादमु- निदर्शाध्यायी-वैशेषिकशास्त्रप्रणेता । अक्षचरणस्तु गौतममुनिः पञ्चाध्यायी-न्यायशास्त्रप्रणेता, ते एव नैय्यायिकोः । बहुवचनं पूजार्थस् । सिद्धसाधनं धुनीते । कारणव्यापारादिति । प्राग- पीति । उत्पादनाशसामग्युत्तरमपेि । नैय्यायिकतनयैः-तदनुया- यिभिः । तन्यताभिमानमूचनाय तनयग्रहणं, तेन तदुपपादनसमर्था इति सूचितम् ।‘‘अनुपमृद्य प्रादुर्भावदर्शनादसतः सदुत्पत्तिः" इति बौदमतमाशङ्क्य निराचष्टे । यद्यपीति। तर्हि कस्योपादा-