पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८९
बद्धादमतप्रधानस्डेिद्धिकथनपुरस्सरम मद्धादखण्ड०



प्रध्वंसस्य कारणत्वम्, अपि तु भावस्यैव बीजाद्यवय- वस्य । अभावत्तु भावोत्पत्तौ, तस्य सर्वत्र सुलभत्वात् सर्वदा सर्वकार्यत्पादप्रसङ्ग इत्यादि नययवार्तिकता- त्पर्यटीकायामस्माभिः प्रतिपादितम् ।

 प्रपश्वप्रत्ययश्चासति बधके न शक्यो मेिथ्येति व- दितुम् इति ।

 कणभक्षाक्षचरणमतमवशिष्यते । तदिदं प्रतिज्ञातम् "सत् कार्यम्" इति । अत्र । हेतुमाह "असद्करणात्

नतेयाशङ्कायामाह । अपि स्विति । अभावोपादानकत्वे बाधकं तर्कमाह । अभावाविति । सर्वदेत्यत्र सर्वत्रेत्यनुषज्यते । आदिपदेन कार्यं मृदनुविद्धघटवदभावानुविद्धं स्यादिति ग्राह्यम् । न्यायवार्तिकतात्पर्यटीकायामिति कथनं तु एतस्य सतर्क्कत्वसू- चनाय । वेदान्तमतस्य सत्तर्कोपबृंहितस्य बहुषु स्वेनोपपादितस्य पुनर्देषोद्भावने स्वस्य प्रतारकत्वापत्तिः , अनुद्भावने साङ्ख्यम- ताज्ञानापत्तिरित्युभयथा पाशरज्जुरिति साक्षात्स्वेन तन्निरसने- ऽवसराभावादन्यमुखेनैव तान्निरसितुमाह । असति बाधक इति । तथा चासति बाधके न मिथ्येति वदितुं शक्यः सति तु बाधके मिथ्येति वदितुं शक्य इयर्थः । बाधकभावे इति विहायाऽसती- ति बाधकंसत्तवसूचनाय । बाधकं—नेह नानास्ति किञ्चन, तरति शाकमात्मविदित्यादि । मूलस्य न्यूनत परिहृत्य कणभक्षादिमतदू- षणपरत्वमाह । कणभक्षेत्यादि । तत्-यस्मात्तन्मतमेववशि- ष्यते तस्मादित्यर्थः । प्रतिज्ञातं-स।ध्यत्वेनेति शेषः । अत्र-स- त्कायेप्रतिज्ञायाम् । हेतुमाहेति ।

 नचासदकरणस्य कार्यरूपपक्षे-ऽवृत्तित्वान्न तत्साधकस्वमिति वाच्यम् । ईश्वरोस्ति नवेति मध्यस्योक्ते ईश्वरोस्ति, कुत इति पृष्ट्टे-