पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


इति । असत् चेत् कारणव्यापारात् पूर्वं कार्यम्, नास्य सत्त्वं कर्तुं केनापि शक्यम्, नहि नीलं शिल्पिसहस्रेणा- पि पीतं कर्तुं शक्यते । सदसत्त्वे घटस्य धर्मौ' इति चेत्, तथा ऽप्यसति धर्मिणि ने तस्य धर्म इति सत्वं तदवस्थमेव । तथा च ना सत्वम् , असम्बद्ध्वेना

कार्यस्य कर्त्तृजन्यत्वादित्यादिवदेतस्य हेतोः प्रकृतन्यायानवयवत्वेपि हेतुपदस्य व्यतिरेकव्याप्तिपरत्वेन तत्साधकत्वात् । तथा हि विमतं कालत्रये सत् जन्यत्वात्, यन्न कालत्रये सत् न तत् जन्यं यथा शशशृङ्गादि, न च तथेदं, तस्मान्न तथेति । असदकरणादि-' त्यस्य विषयसाधकतर्क्कपरत्वं चाह । असञ्चेत्यादुना | तथा चा सत्त्वाविशेषाच्छशशृङ्गादेरपि सत्त्वापत्तिरित्यर्थः । असतस्सत्त्वं न सम्भवतीतिसूचनायान्यस्य स्थितस्यान्यभावानुपपत्तौ दृष्टान्तामाह । न हीति।  एतेन नीलवस्त्रदेः क्षारादिन नीलरूपपरावृत्तया हरिद्रादिना पीततासम्भवान्नहित्याद्यग्ङ्तमिति परात्तम् । तत्राप्यन्यस्यान्य=भावानुपपत्तेः ।

 ननु सदसतोर्विरोधेपि उत्पत्तेः प्राग्घटो नास्ति, तदनन्ततरं च घटोस्ति, नाशानन्तरं च घटोनास्तीति सर्वानुभवसिद्धौ-तत्त- दधिकरणवृत्तित्वरूप-सत्त्व-तद्भिन्नकालनिभावप्रतियोगित्वरूपा ऽसत्त्वे घटस्य धर्मौ, शशशृङ्गादेस्तादृशधर्माभावान्नोत्त्पत्यापत्तिरिति शङ्कते । सदिति । सत्वं तद्वस्थम् । धार्मिण इति शेषः ।

 नन्विदमसङ्गतं घटादेर्वर्त्तमानकाले एव तादृशसत्त्वाङ्गीकारा- दिति चेन्न, अभिप्रायानवबोधादित्याह । असम्बद्धेनेति । घटोत्पत्तेः प्राक् तदुत्तरस्मिं श्च यो घटाभावस्तस्मिन् घटसम्बन्धाङ्गीकारे सम्ब- न्धस्योभयसम्बन्ध्यधीनत्वरूपत्वेन सम्बन्धिसत्त्वं तदवस्थमेव, सम्ब-