पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।



 इतश्च कारणव्यापारात् प्राक् सदेव कार्यम-"उपा: दानग्रहणात्" गत उपादानानि कारणानि, तथा ग्रहण-का- र्येण सम्बन्धः । उपादानैः कार्यस्य सम्बन्धदिति यावत एतदुक्तं भवति-कार्येणा सम्बद्धं कारणं कार्यस्य जन- कम् , सम्वन्धश्च कार्यस्यासतो न सम्भवति, तस्मादिति ।।

 स्यादेशत्-असम्बद्धमेव कार्यं कारणैः कस्मान्न जन्य ते ? तथा चासदवोत्पत्स्यत इत्यत आह--“सर्वसम्भ-

व्यक्त्यादिप्रसङ्गः । यत्र यस्य प्रागभावोस्ति स एव तत्र जायते इत्यस्य पूर्व दूषितत्वादित्यर्थः । कारणे कार्यसत्त्वमुक्तं वासिष्ठे ।


 प्रसुप्तावस्थया चक्रपद्मशङ्काः शिलोदरे ।
 यथा स्थिताश्चितेरन्तस्तथेर्यं जगदावली ॥

इति ।

 कारणानि-स्थानाभिपिक्तपरिणामकारणानीत्यर्थः । गृत्द्यते- ऽनेनेतिग्रहणं-सम्बन्धस्तस्य प्रतियोगिनिरूप्यतया कार्यपदाध्याहा- रेण मूलं योजयति । कार्येणेति । उपादानानि कारणानि सम- वायिकारणानि । उपदीयन्ते इत्युपादानानीति योगेन कार्यादिसा- धारणपरस्योपादानपदस्य विशेषपरत्वमाह । कारणानीति। नन्वे- वमपि दध्यर्थी क्षीर मुपादत्ते नान्यत्, यदि चाऽसत्कार्यं स्यात् तर्हि दध्यर्थी उदकस्याप्युदानं कदाचिन्कुर्यात्, न च कुरुते, तस्मादुपा- दानग्रहणादपि ज्ञायते-कारणे उत्पत्तेः प्रागपि कायमस्तीति सम्भ- वेपि उपादानग्रहणस्य पक्षवृत्तित्वासम्भवेन. हेतुत्वं न सम्भवतीत्या- शङ्क्याह । उपादानैरिति, तथा च कार्ये कारण सम्वन्धस्य लाभान्न पूर्वेक्तदोष इत्यर्थः । ननु कार्यमुत्पत्तेः प्राक् सत् सदा तत्सम्ब- न्धादित्यस्यापि हेतोरसिद्धिमाशङ्क्याह । एतदुक्तं भवतीति

 अत्र वेदमनुमानम् । मृदादयः स्वसम्बद्धकार्यजनकाः उपा- दानकारणत्वात् व्यतिरेके शशम्शृङ्गवदिति । नचाप्रयोजकत्वम् । असम्बद्धत्वाविशेषात्सर्वकार्योत्पत्यापत्तेः ॥